SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ २६९ nama [स्वरिष्यन] स्वृ । स्वरिष्यतीति । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० → अत्-स्य आदिः । अनेन इट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । स्वरतेः परत्वात् 'धूगौदितः' (४।४।३८) इत्यस्य विकल्पं बाधित्वा नित्यमिट । तकारनिर्देशात् अतरि(रे)व ग्रहणं न भवति ।।छ।। कृत-चूत-नृत-छुद-तृदोऽसिचः सादेर्वा ।।४।४५०।। [कृतवृतनृतदतृदः] कृतश्च वृतश्च नृतश्च छुदश्च तृद् च = कृतचूतनृतछ्दतृद्, तस्मात् । [असिचः] न सिच् = असिच् । 'नञत्' (३।२।१२५) न० → अ०, तस्मात् । [सादेः] स् आदिर्यस्याऽसौ सादिस्तस्य । [वा] वा प्रथमा सि । [कर्त्यति, कतिष्यति] ‘कृतैत् छेदने' (१३२५) कृत् । 'कृतैप वेष्टने' (१४९०) कृत् । भविष्यन्ती स्यति । अनेन वा इट । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । षत्वम् । [अकय॑त्, अकर्तिष्यत् कृत् । क्रियातिपत्तिः स्यत् । अनेन वा इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । षत्वम् । ‘अड् धातोरादि०' (४।४।२९) अट् । [चिकृत्सति, चिकर्तिषति] कृत् । कर्तितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४१३) द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'क-डश्च-ञ्' (४।१।४६) क० → च० । 'सन्यस्य' (४।१।५९) इ । 'उपान्त्ये' (४।३।३४) इत्यनेनाऽनिटः सन्कित्त्वम्, तस्य फलं गुणो न, पक्षेऽनेन इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । षत्वम् । [चय॑ति, चर्तिष्यति] 'घृतैत् हिंसा-ग्रन्थयोः' (१३६९) चुत् । भविष्यन्ती स्यति । अनेन वा इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । षत्वम् । [अचय॑त्, अचर्तिष्यत् त् । क्रियातिपत्तिः स्यत् । अनेन वा इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । . षत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् । [चिचत्सति, चिचर्तिषति] नृत् । चर्तितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'सन्यस्य' (४।११५९) इ । पक्षेऽनेन इट् । षत्वम् । . [नय॑ति, नर्तिष्यति] 'नृतैच् नर्त्तने' (११५२) नृत् । भविष्यन्ती स्यति । अनेन वा इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । षत्वम् । [अनर्त्यत्, अनतिष्यत्] नृत् । क्रियातिपत्तिः स्यत् । अनेन वा इट् । ‘लघोरुपान्त्यस्य' (४।३।४) गु० अर् । षत्वम् । ‘अड् धातोरादि०' (४।४।२९) अट् । [निनृत्सति, निनर्तिषति नृत् । नर्तितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१३) द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । ‘सन्यस्य' (४।१।५९) इ । पक्षे इट् । [छद्मति, छर्दिष्यति] 'ऊछुदृपी दीप्ति-देवनयोः' (१४८०) छुद् । भविष्यन्ती स्यति । अनेन वा इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । षत्वम् । Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy