________________
२६८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
MARA
ग्रह०' (४।३।३२) इत्यादिना सन्कित्त्वम् । 'ग्रह-वस्च-भ्रस्ज-प्रच्छः' (४।१।८४) य्वृत् । अनेन इट् ।
[चिकीर्षति, चिकरिषति, चिकरीषति] 'कृ हिंसायाम्' (१५२९) कृ । करितुं-करीतुं वा इच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । शेषं पूर्ववत् । ‘इवृध-भ्रस्ज०' (४।४।४७) इट् । 'वृतो नवाऽनाशी:-सिच्परस्मै च' (४।४।३५) दीर्घत्वम् ।
[जिगीर्षति, जिगरिषति, जिगरीषति] 'गृश् शब्दे' (१५३८) गृ । गरितुं-गरीतुं वा इच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । शेषं पूर्ववत् । ‘इवृध-भ्रस्ज-दम्भ-श्रि-यूर्गु-भर-ज्ञपि-सनि-तनि-पति-वृद्-दरिद्रः सनः' (४।४।४७) इट् । 'वृतो नवाऽनाशी:-सिच्परस्मै च' (४।४।३५) दीर्घत्वम् ।।
[दिधीर्षति] 'धृग धारणे' (८८७) धृ । धर्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'स्वर-हन-गमोः सनि धुटि' (४।१।१०४) दीर्घः । 'ऋतां विडतीर्' (४।४।११६) इर् । 'सन्-यडश्च' (४।१३) द्वि: । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) ध० → द० । 'भ्वादेर्नामिनो०' (२११४६३) दीर्घः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
ऋ-स्मि-पूङ-दृ-ध-प्रच्छामप्राप्ते, शेषाणां औदित्त्वात-ऋदन्ताश्च विकल्पे प्राप्ते वचनम ।।छ।।
हनृतः स्यस्य ।।४।४।४९।। [हनृतः] हन् च ऋच्च = हनृत्, तस्मात् । [स्यस्य] स्य षष्ठी ङस् । ‘टा-ङसोरिन-स्यौ' (१।४।५) “स्य''आदेशः । [हनिष्यति] 'हनंक हिंसा-गत्योः' (११००) हन् । भविष्यन्ती स्यति । अनेन इट् । षत्वम् । [अहनिष्यत्] हन् । क्रियातिपत्तिः स्यत् । अनेन इट् । षत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[हनिष्यन् हन् । हनिष्यतीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप० → अत्-स्य आदिः । अनेन इट् । षत्वम् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'दीर्घड्याब-व्यञ्जनात् सेः' (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९) तलोपः ।
[आहनिष्यमाणः] हन्, आयूर्व० । आहनिष्यते । ‘शत्रानशावेष्यति०' (५।२।२०) आनश्प्र० → आन-स्य आदिः । अनेन इट् । षत्वम् । ‘अतो म आने' (४।४।११४) मोऽन्तः ।
[करिष्यति] ‘डुकृग् करणे' (८८८) कृ । भविष्यन्ती स्यति । अनेन इट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [अकरिष्यत्] कृ । क्रियातिपत्तिः स्यत् । अनेन इट् । षत्वम् । ‘अड् धातोरादि०' (४।४।२९) अट् ।
[करिष्यन] कृ । करिष्यतीति । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० → अत्- स्य आदिः । अनेन इट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
[करिष्यमाणः] कृ । करिष्यते । ‘शत्रानशावेष्यति०' (५।२।२०) आनश्प्र० → आन-स्य आदिः । अनेन इट् । 'अतो म आने' (४।४।११४) मोऽन्तः । 'नाम्यन्तस्था-कवर्गात् पदान्तः कृतस्य सः शिड्-नान्तरेऽपि' (२।३।१५) षत्वम् ।
[स्वरिष्यति] 'औस्वृ शब्दोपतापयोः' (२१) स्वृ । भविष्यन्ती स्यति । अनेन इट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
[अस्वरिष्यत्] स्वृ । क्रियातिपत्तिः स्यत् । अनेन इट् । 'नाम्यन्तस्था-कवर्गात्' (२।३।१५) षत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org