SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ [लुभित्वा, लोभित्वा केशान् गतः ] लोभनं पूर्वम् । 'प्राक्काले ' ( ५।४।४७) क्त्वाप्र० त्वा । वौ व्यञ्जनाऽऽदेः सन् चाऽय्-वः' (४।३।२५ ) इत्यनेन वा सेट् किद्वत्तस्य फलं गुणो न । [अञ्चिता गुरवः ] 'अञ्च गतौ च ' (१०५) अञ्च् । अञ्च्यते । 'ज्ञानेच्छाऽर्चाऽर्थ-जीच्छील्यादिभ्यः क्तः' (५।२।९२) क्तप्र० → त । अनेन इट् । [उच्चैरञ्चितलाङ्गुलः ] अञ्चितः पूजितो लाङ्गूलो यस्य सः । त्वा । अनेन इट् । [अञ्चितवान् गुरून्] अञ्चति स्म । 'क्त-क्तवतू' ( ५1१1१७४) क्तवतुप्र० [शिरोऽञ्चित्वेव संवहन्] अञ्चनं पूर्वम् । 'प्राक्काले' (५/४१४७) क्त्वाप्र० [लुब्ध्वा, लुभित्वा, लोभित्वा ] लुभित्वा लोभित्वेत्यत्र 'सह -लुभ० ' ( ४।४।४६ ) इति वेट् । 'वौ व्यञ्जनाऽऽदेः सन् चाऽय् वः' (४।३।२५) इति कित्त्वम् । = = [उदक्तमुदकं कूपात्] उदच्यते स्म । 'क्तक्तवतू' (५।१।१७४) क्त ० त । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलुक् । 'च-जः क- गम्' (२।११८६) च० क० । [अक्त्वा, अञ्चित्वा] अञ्चनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० त्वा । 'ऊदितो वा' (४।४।४२) वेट् । लुभेः क्त्वि 'सह-लुभ०' (४।४।४६) इत्यादिना, अञ्चेश्च 'ऊदितो वा' (४।४।४२ ) इति विकल्पे, उभयोश्च 'वेटोऽपतः' (४।४।६२) इति क्तयोर्नित्यं प्रतिषेधे प्राप्ते वचनम् ||छ || २६१ तवत् । अनेन इट् । पूङ् - क्लिशिभ्यो नवा ||४|४|४५ || [ पूक्लिशिभ्यः ] क्लिशिश्च क्लिशिश्च I क्लिशी । ‘स्यादावसंख्येयः' ( ३।१।११९) एकशेषः । पूङ् च क्लिशी च पूक्लिशयः, तेभ्यः = पूक्लिशिभ्यः । पञ्चमी भ्यस् । [ नवा ] नवा प्रथमा सि । = [पूतः, पवितः ] 'पूङ् पवने' (६००) पू । पूयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० त । अनेन वा इट् । गुणः । 'ओदौतोऽवाव्' (१।२।२४) अव् । [पूतवान्, पवितवान् ] पू । पवति (ते) स्म । 'क्तक्तवतू' (५।१।१७४) क्तवतुप्र० तवत् । अनेन वा इट् । गुणः । 'ओदौतोऽवाव्' (१।२।२४) अव् । Jain Education International [पूत्वा, पवित्वा ] पू । पवनं पूर्वम् । 'प्राक्काले' (५/४१४७) क्त्वाप्र० त्वा । अनेन वा इट् । गुणः । 'ओदौतोऽवाव्' (१।२।२४) अव् । P. उदञ्चति स्म । P. गत्यर्था ऽकर्मक-पिब-भुजेः (419199) क्तप्र० → त । (१२७६ ) क्लिश् । 'क्लिशौश् विबाधने' 'क्तक्तवतू' (५।१।१७४) क्तप्र० त [क्लिष्टः, क्लिष्टवान्, क्लिशितः, क्लिशितवान् ] 'क्लिशिच् उपतापे' (१५५७) क्लि । क्लिश्यते स्म । क्लिश्यति स्म । क्लिश्नाति स्म वा । क्तवतुप्र० → तवत् । 'यज-सृज- मृज-राज-भ्राज-भ्रस्ज-वस्व-परिव्राजः शः षः ' (२।१।८७) श० ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० । For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy