________________
२६२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकतृका दुण्ढिका ।
[क्लिष्ट्वा, क्लिशित्वा] क्लेशनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'यज-सृज-मृज-राज०' (२११८७) श० → ष० । 'तवर्गस्य श्चवर्ग०' (११३।६०) त० →ट० ।
पूडिति डकारः पूगो निवृत्त्यर्थः । बहुवचनं क्लिश्यति-क्लिश्नात्योहणार्थम् । पूङः ‘उवर्णात्' (४।४।५८) इति नित्यं निषेधे प्राप्ते, क्लिश्यतेर्नित्यमिटि प्राप्ते, क्लिश्नातेश्चौदित्त्वात् क्त्वायां विकल्पे सिद्धेऽपि क्तयोर्नित्यं प्रतिषेधे प्राप्ते विकल्पार्थं वचनम् ।।छ।।
सह-लुभेच्छरुष-रिषस्तादेः ।।४।४१४६।।
[सहलुभेच्छरुषरिषः] सहश्च लुभश्च इच्छश्च रुषश्च रिष् च = सहलुभेच्छरुषरिष्, तस्मात् । [तादेः] त आदिर्यस्य सः = तादिः, तस्य ।
[सोढा, सहिता] 'षहि मर्षणे' (९९०) षड् । 'षः सोऽष्ट्यै-ष्टिव-ष्वष्कः' (२।३।९८) सह । श्वस्तनी ता । 'हो धुटपदान्ते' (२०१८२) ह० → ढ० । 'अधश्चतुर्थात् तथोर्धः' (२११७९) त० →ध० । 'तवर्गस्य श्चवर्ग०' (१३६०) ध० → ढ० । 'सहि-वहेरोच्चाऽवर्णस्य' (१।३।४३) ढलोपः - अस्य ओकारः । पक्षेऽनेन इट् ।
[सोढुम्, सहितुम्] सहनाय । 'क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती' (५।३।१३) तुम्प० । 'हो धुट्-पदान्ते' (२।१।८२) ह० → ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० →ध० । 'तवर्गस्य श्ववर्ग०' (१।३।६०) ध० → ढ० । 'सहि-वहेरोच्चाऽवर्णस्य' (१३।४३) ढलुक-अस्य ओकारः । पक्षेऽनेन इट् ।
[सोढव्यम्, सहितव्यम् साते = सोढव्यम् । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । 'हो धुट-पदान्ते' (२११८२) ह० → ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) ध० → ढ० । ‘सहिवहेरोच्चाऽवर्णस्य' (१।३।४३) ढलुक् - अस्य ओकारः । पक्षेऽनेन इट् ।
[लोब्धा, लोभिता] 'लुभत् विमोहने' (१३९०) लुभ् । 'लुभच् गाये' (११९८) लुभ् । श्वस्तनी ता । 'अधश्चतुर्थात् तथोर्धः' (२।१।७९) त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) भ० ते ब० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । पक्षेऽनेन इट् ।
[लोब्धुम्, लोभितुम्] लुभ् । लोभनाय । ‘क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती' (५।३।१३) तुम्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'अधश्चतुर्थात् तथोधः' (२191७९) त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) भ० → ब० । पक्षेऽनेन इट् ।
[एष्टा, एषिता] 'इषत् इच्छायाम्' (१४१९) इष् । श्वस्तनी ता । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'तवर्गस्य श्ववर्ग०' (१।३।६०) त० → ट० । पक्षेऽनेन इट् ।
[एष्टुम्, एषितुम्] इष् । एषणाय । ‘क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'तवर्गस्य श्चवर्ग०' (१1३।६०) त० → ट० । पक्षेऽनेन इट् ।
[एष्टव्यम्, एषितव्यम् इष् । इष्यते । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० । पक्षेऽनेन इट् ।
‘इपच् गतौ' (११६८), 'इषश् आभीक्ष्ण्ये' (१५५९) इत्याभ्यां तु नित्यमेवेट्, एनयोरुदाहरणानि एतानि-प्रेषितारितुम्-प्रेषितव्यम् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org