________________
अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥
२५९
Anti
[निष्कुषितः] निष्कुष्यते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० → त । अनेन इट् । [निष्कुषितवान्] निष्कुष्णाति स्म । 'क्त-क्तवतू' (५1१1१७४) क्तवतुप्र० → तवत् । अनेन इट् ।।छ।।
जू-वश्चः क्त्वः
।।४।४।४१॥
[जवश्चः] जश्च वश्च्च = जुवश्च्, तस्मात् । [क्त्वः] क्त्वा षष्ठी डस् । 'लुगाऽऽतोऽनापः' (२।१।१०७) आलुक् ।
[जरित्वा, जरीत्वा] 'जृष् जरसि' (११४५) जृ । 'जृश् वयोहानौ' (१५३६) जु । जरणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनेन इट् । 'वृतो नवाऽनाशीः-सिच्परस्मै च' (४।४।३५) इत्यनेन वा दीर्घः ।
[वश्चित्वा] 'ओव्रस्चौत् छेदने' (१३४१) वस्न् । व्रश्चनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० →त्वा । अनेन इट् । 'क्त्वा' (४।३।२९) इत्यनेनाकित्त्वान्न खत् ।
__जू इति क्रैयादिकस्य ग्रहणम्, देवादिकस्य तु सानुबन्धस्य
[जीवा] जू । जरणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'ऋतां क्डितीर्' (४।४।११६) इर् । 'भ्वादेर्नामिनो दीर्घो र्वोळञ्जने' (२१११६३) दीर्घः ।
जू इत्यस्य 'ऋवर्ण-श्यूटुंगः कितः' (४।४।५७) इति प्रतिषेधे प्राप्ते व्रश्चेरौदित्वाद्विकल्पे प्राप्ते वचनम् ।।छ।।
ऊदितो वा ॥४।४।४२॥ [ऊदितः] ऊत् इदनुबन्धो यस्य सः = ऊदित्, तस्मात् ।
[दान्त्वा, दमित्वा] शमू (१२३०) . 'दमूच् उपशमे' (१२३१) दम् । दमनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनेन वेट् । 'अहन्पञ्चमस्य क्वि-क्डिति' (४1१1१०७) दीर्घः । 'म्नां धुड्वर्ग०' (१1३।३९) म० → न० ।
[शान्त्वा, शमित्वा] 'शमू उपशमे' (१२३०) शम् । शमनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनेन वेट । 'अहन्पञ्चमस्य क्वि-क्डिति' (४११०७) दीर्घः । 'म्नां धुड़वर्गऽन्त्योऽपदान्ते' (१३३९) म० → न० ।
[तान्त्वा, तमित्वा] 'तमूच् काक्षायाम्' (१२३२) तम् । तमनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० →त्वा । अनेन वेट् । 'अहन्पञ्चमस्य०' (४।१।१०७) दीर्घः । ‘म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) म० → न० ।
[धूत्वा, देवित्वा] 'दिवूच् क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिषु' (११४४) दिव् । देवनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनेन वेट । 'अनुनासिके च च्छ्-वः शूट्' (४।१।१०८) क्० → ऊ० । 'इवर्णादेरस्वे०' (१।२।२१) यत्वम् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए ।
[स्यूत्वा, सेवित्वा] 'षिवूच् उतौ' (११६४) षिव् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सिव् । सेवनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनेन वेट् | 'अनुनासिके च च्छ्-वः शूट' (४११०८) व० → ऊट० । 'इवर्णादरस्वे०' (१।२।२१) यत्वम् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए ।
यम-सिध्यत्योरप्राप्ते, शेषाणां प्राप्ते विभाषा छ।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org