SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । 'सन्-यङश्च' (४।१।३) द्विः । 'अघोषे शिट : ' ( ४|१|४५) सलुक् । ' ह्रस्वः ' ( ४ |१| ३९ ) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वी ' (४।१।४२)फ० प० । 'सन्यस्य' (४।१।५९) इ । मतान्तरे अनेन वा इट् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । २५८ [ आप्याता, आप्यायिता ] स्फायैङ् (८०४ ) - 'ओप्यायैङ् वृद्धौ' (८०५) प्याय्, आड्पूर्व० । श्वस्तनी ता । अ मतान्तरे इट् । [ आपिप्यासते, आपिप्यायिषते ] प्याय्, आड्पूर्व० । आप्यायितुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१ ) सन्प्र० । ‘सन्-यडश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ' ह्रस्वः' ( ४।१।३९) ह्रस्वः । 'सन्यस्य' ( ४।१।५९) इ । मतान्तरे अनेन वा इट् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [ नातिक्रंस्यति, नातिक्रमिष्यति] 'क्रमू पादविक्षेपे' (३८५) क्रम्, अतिपूर्व० । भविष्यन्ती स्यति । मतान्तरेऽनेन वा इट् । [आस्कन्दिषम्, आस्कान्त्सम्] 'स्कन्दुं गति-शोषणयोः' (३१९ ) स्कन्द्, आड्यूर्व० । अद्यतनी अम् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'व्यञ्जनानामनिटि' (४।३।४५ ) वृद्धिः । मतान्तरेऽनेन इट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । बहुलाधिकारात् एषामिविकल्पः [पक्ता, पचिता ] 'डुपचष् पाके' (८९२) पच् । श्वस्तनी ता । वेट् । [आस्कन्तव्यम्, आस्कन्दितव्यम् ] आस्कद्यते । 'तव्याऽनीयौ' (५।१।२७) तव्यप्र० । वेट् । [पट्टा, पटिता] अट (१९४) 'पट गतौ' (१९५) पट् । श्वस्तनी ता । वेट् । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां योगे च - टवर्गी' (१।३।६०) त० ८० ॥ छ ॥ - निष्कुषः || ४|४|३९|| [ निष्कुषः ] निः संबद्धः कुष् = निष्कुष्, तस्मात् । [निष्कोष्टा, निष्कोषिता] 'कुषश् निष्कर्षे' (१५६५) कुष्, निर्-निस् वा पूर्व० । श्वस्तनी ता । ' लघोरुपान्त्यस्य' (४।३।४) गु० ओ । अनेन वेट् । 'निर्दुर्बहिराविष्प्रादुश्चतुराम्' (२।३।९) २० → ष० सर्वत्र । [निष्कोष्टुम्, निष्कोषितुम् ] निष्कोषणाय । 'क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती' (५।३।१३ ) तुम्प्र० । [निष्कोष्टव्यम्, निष्कोषितव्यम् ] निष्को (कु) ष्यते । 'तव्याऽनीयौ' (५।१।२७) तव्यप्र० । अनेन सर्वत्र वेट् । [निष्कोषितृको देश: ] कुष्, निपूर्व० । निर्गताः कोषितारोऽस्मान्निष्कोषितृको देशः । 'ऋन्नित्यदितः' ( ७।३।१७१) कच्प्र० क । प्रथमं कुष्णातीति । 'णक-तृचौ' (५।१।४८) तृच्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' ( ४१४१३२) इट् ततो द्वितीयसमासः ॥ छ ॥ Jain Education International क्तयोः || ४|४|४० ॥ [क्तयोः ] क्तश्च क्तवांश्च = क्तौ । ' स्यादावसंख्येयः' ( ३।१।११९) क्त एकशेषियइ । सप्तमी ओस् । पृथग्योगाद्वेति निवृत्तम् । For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy