________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [ स्नोग्धा, स्नोढा, स्नोहिता] 'ष्णुहौच् उद्गिरणे' (१२४० ) ष्णुह् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्नुह् । श्वस्तनी ता । 'मुह- दुह-स्नुह- स्निहो वा' (२।१।८४) हस्य वा घत्वम् । 'अधश्चतुर्थात् तथोर्धः ' (२।१।७९) त० ध० । 'तृतीयस्तृतीय- चतुर्थे' (१ । ३ । ४९) घ०ग० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । अनेन वा इट् । 'हो धुट् पदान्ते' (२।१।८२) ह०ढ० । 'अधश्चतुर्थात् तथोर्धः ' (२।१।७९) त० ध० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) ध०
ढ० । 'ढस्तड्ढे' (१।३।४२) ढलुक् ।
२५६
[स्नेग्धा, स्नेढा, स्नेहिता ] 'ष्णिहीच् प्रीतौ' (१२४१) ष्णिह् । ' षः सोऽष्ट्यै- ष्ठिव-ष्वष्कः' (२१३।९८) स्निह् । श्वस्तनी ता । 'मुह- द्रुह-स्नुह्-स्निहो वा' (२।१।८४) हस्य वा घत्वम् । 'अधश्चतुर्थात् तथोर्घः' (२।१।७९) त० ध० । 'तृतीयस्तृतीयचतुर्थे' (१।३।४९) घ० ग० । 'लघोरुपान्त्यस्य' ( ४ | ३ | ४ ) गु० ए । अनेन वा इट् । 'हो धुट्-पदान्ते' (२।१।८२) ह० द० । 'अधश्चतुर्थात् तथोर्धः ' (२।१।७९) त० ध० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) ध०८० । 'ढस्तड्ढे ' ( १ । ३ । ४२) ढलोपः ।
[ गोप्ता, गोपिता ] 'गुपौ रक्षणे' (३३२) गुप् । 'अशवि ते वा' ( ३।४।४) इत्यनेन आयप्रत्ययनिषेधः । श्वस्तनी ता । अनेन वा इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[जुगुप्सति, जुगोपिषति, जुगुपिषति] गुप् । गोप्तुमिच्छति । सन्प्र० । 'सन्- यडञ्च' (४।१।३) द्विः । 'ग- होर्ज : ' (४/१/४०) ग० ज० । प्रथमे 'उपान्त्ये' ( ४ | ३ | ३४) सनः कित्त्वम्, तस्य फलं गुणो न । अनेन इट् । 'लघोरुपान्त्यस्य' ( ४ | ३ | ४) गु० ओ । तृतीये 'ऋत् - तृष- मृष०' (४।३।२४ ) इत्यधिकारः 'वौ व्यञ्जनाऽऽदेः सन् चाऽय् वः' (४।३।२५ ) इत्यनेन सेटः सनो वा कित्त्वम्, तस्य फलं गुणो न । 'नाम्यन्तस्था- कवर्गात् ० ' (२।३।१५ ) षत्वम् ।
[निगोढा, निगूहिता ] 'गुहौग् संवरणे' (९३५) गुह्, निपूर्व० । श्वस्तनी ता । प्रथमे गुणः । 'हो धुट्-पदान्ते' (२।११८२) ह० ढ० । 'अधश्चतुर्थात् तथोर्धः ' (२।१।७९) त० ध० । 'तवर्गस्य श्चवर्ग-ष्टवर्गा०' (१।३।६०) ध० ० | 'ढस्तड्ढे ' (१।३।४२) 'ढलोपः । अन्यत्र अनेन इट् । 'गोहः स्वरे ' ( ४।२।४२) उकारस्य ऊ ।
[विगाढा, विगाहिता ] 'गाहौङ् विलोडने' (८७१) गाहू, विपूर्व० । श्वस्तनी ता । 'हो धुट्-पदान्ते' (२।१।८२) ह० → ढ० । 'अधश्चतुर्थात् तथोर्ध : ' (२।१।७९) त० ध० । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां०' (१।३।६०) ध० 'ढस्तड्ढे ' (१।३।४२) ढलोपः । अनेन वा इट् ।
द० ।
[स्वर्ता, स्वरिता ] 'औस्वृ शब्दोपतापयोः' (२१) स्वृ । श्वस्तनी ता । अनेन वा इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् ।
[सुसूषति, सिस्वरिषति] स्वृ । स्वरितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः ' ( ३।४।२१) सन्प्र० । 'नामिनोऽनिट्' ( ४ | ३ ३३३ ) कित्त्वम् । 'ओष्ठयादुर्' (४|४|११७) उर् । 'सन्-यडश्च' (४।१।३) द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४|११४४) अनादिव्यञ्जनलोपः । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् । अनेन वा इट् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'सन्-यडश्च' (४।१।३) द्विः । 'व्यञ्जन० ' ( ४।१।४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत् ' (४।१।३८ ) ऋ० अ० । 'सन्यस्य' (४।१।५९) अ० इ० ।
[सोता, सविता] 'षडौक् प्राणिगर्भविमोचने' (११०७) षू । 'पूडीच् प्राणिप्रसवे' (१२४२ ) षू । ' षः सोऽष्ट्यै-ष्ठिवष्वष्कः' (२।३।९८) सू । श्वस्तनी ता । अनेन वा इट् । 'नामिनो गुणो०' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ।
[ररन्धिव] 'रधौच् हिंसा-संरादयोः ' (११८८) रघ् । परोक्षा व । द्विर्धातुः परोक्षा -ङे प्राक् ० ' ( ४1१1१ ) द्विः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org