________________
अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥
[ समस्कृत ] सम्-कृ । 'संपरेः कृगः स्सट्' (४|४|११ ) सट् । अद्यतनी त । 'सिजद्यतन्याम्' ( ३।४।५.३) सिच् । 'धुड्-ह्रस्वाल्लु०' (४।३।७०) सिच्लुक् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[ संस्कृषीष्ट ] सम्-कृ । ' संपरेः कृगः स्सट्' ( ४।४ । ९१ ) सट् । आशी: सीष्ट ।
[अस्मार्षीत्] स्मृ । अद्यतनी दित् । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । सः सिजस्तेर्दि- स्यो:' ( ४।३।६५) ईत् । 'सिचि परस्मै समानस्याऽडिति' (४।३।४४ ) वृ० आर् । 'नाम्यन्तस्था० ' (२|३|१५ ) षत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अध्वार्षीत्] ध्वृ । अद्यतनी दित् । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः ' ( ४।३।६५) ईत् । 'सिचि परस्मै०' (४।३।४४) वृ० आर् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् ||छ।।
२५५
धूगोदितः || ४|४|३८||
औदित्, धूग् च औदिच्च धूगौदित्, तस्मात् ।
[ धूगोदितः ] औत् इदनुबन्धो यस्य सः = पृथग्योगात् “सिजाशिषोरात्मने" इति निवृत्तम्, अन्यथा "संयोगाद्धृगौदित" इत्येकमेव योगं कुर्यात् ।
[ धोता, धविता] 'धूग्ट् कम्पने ' (१२९१) धू । 'धूग्श् कम्पने ' (१५२०) धू वा । श्वस्तनी ता । अनेन वा इट् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । अन्यत्र 'ओदौतोऽवाव्' (१।२।२४) अव् ।
=
[रद्धा, रधिता ] 'रधौच् हिंसा-संराद्ध्योः ' (११८८) रघ् । श्वस्तनी ता । अनेन वा इट् । 'अधश्चतुर्थात् तथोर्धः ' (२1१।७९) त० ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० द० ।
[त्रप्ता, तर्पा, तर्पिता ] 'तृपौच् प्रीतौ' (११८९) तृप् । श्वस्तनी ता । प्रथमे 'स्पृशादि-सृपो वा' ( ४|४|११२) अकारागमः । ' इवर्णादिरस्वे स्वरे य-व-र-लम्' (१।२।२१) रत् । अनेन वा इट् । 'लघोरुपान्त्यस्य' ( ४ | ३ |४) गु० अर् ।
[द्रप्ता, दर्ता, दर्पिता ] 'दृपौच् हर्ष - मोहनयो:' (११९०) दृप् । श्वस्तनी ता । प्रथमे 'स्पृशादि-सृपो वा' (४|४|११२) अकारागमः । ' इवर्णादेरस्वे० ' (१।२।२१) रत् । अनेन वा इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् ।
[नंष्टा, नशिता] 'नशौच् अदर्शने ' (१२०२ ) नश् । श्वस्तनी ता । 'नशो धुटि' ( ४|४|१०९) नोऽन्तः । 'यजसृज- मृज- राज० ' (२1१1८७) श० ष० । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां ० ' (१|३ | ६० ) त० ८० । अनेन वा इट् । 'शिड्- हेऽनुस्वारः' (१।३।४०) न्० अनुस्वारः ।
[ मोग्धा, मोढा, मोहिता ] 'मुहौच् वैचित्त्ये' (१२३८ ) मुह् । श्वस्तनी ता । 'मुह दुह स्रुह- त्रिहो वा' (२१११८४) हस्य वा घत्वम् । 'अधश्चतुर्थात् तथोर्धः ' (२।१।७९) त० ध० । 'तृतीयस्तृतीय- चतुर्थे' (१।३।४९) घ०ग० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । अनेन वा इट् । 'हो धुट्पदान्ते' (२।१।८२) ह० ढ० । 'अधश्चतुर्थात् तथोर्धः ' (२।१।७९) त० ध० । ' तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां०' (१।३।६०) ध० द० । 'ढस्तड्ढे ' (१।३।४२) ढलुक् ।
Jain Education International
[ द्रोग्धा, द्रोढा, द्रोहिता ] 'द्रुहौच् जिघांसायाम्' (१२३९) द्रुह् । श्वस्तनी ता । 'मुह- द्रुह - स्नुह- स्निहो वा' (२।१।८४ ) हस्य वा घत्वम् । ‘अधश्चतुर्थात् तथोर्धः ' (२।१।७९) त० ध० । 'तृतीयस्तृतीय- चतुर्थे ' (१।३।४९) घ०ग० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । अनेन वा इट् । 'हो धुट्-पदान्ते' (२।१।८२) ह० ढ० । 'अधश्चतुर्थात् तथोर्धः ' (२।१।७९) त० ध० । 'तवर्गस्य श्चवर्ग० ' (१।३।६०) ध० द० । 'ढस्तड्ढे ' (१।३।४२) ढलुक् ।
For Private & Personal Use Only
www.jainelibrary.org