________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [पाक्तिः ] 'डुपचष् पाके' (८९२) पच् । पचन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'ति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ । पाच्यादित्याशास्यमानः । ' तिक्कृतौ नाम्नि' (५।१।७१) तिक्प्र० ति । 'णेरनिटि' ( ४ | ३ |८३) णिग्लुक् ।
२५०
[याष्टिः ] 'यर्जी देवपूजा-सङ्गतिकरण-दानेषु' (९९१) यज् । यजन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । 'ञ्णिति' (४।३।५० ) उपान्त्यवृद्धिः आ । याज्यादित्याशास्यमानः । ' तिक्कृतौ नाम्नि' (५।१।७१) तिक्प्र० ति । 'णेरनिटि' ( ४ | ३ |८३) णिगलुक् ।
[प्रज्ञप्तिः ] प्रज्ञपि पूर्ववत् । प्रज्ञप्यादित्याशास्यमानः । ' तिक्कृतौ नाम्नि ' ( ५।१।७१ ) तिक्प्र० ति । 'रनिटि' ( ४ | ३ |८३) णिग्लुक् ॥ छ।
गृहूणोऽपरोक्षायां दीर्घः || ४|४|३४||
[गृह्णः ] गृह्णा षष्ठी इस् । 'लुगाऽऽतोऽनापः ' (२।१।१०७) आलुक् ।
[ अपरोक्षायाम् ] न परोक्षा = अपरोक्षा, तस्याम् ।
[ दीर्घः ] दीर्घ प्रथमा सि ।
[ग्रहीता] 'ग्रहीश् उपादाने' (१५१७) ग्रह । श्वस्तनी ता । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । अनेन दीर्घः । [ ग्रहीतुम् ] ग्रह् । ग्रहणाय । 'क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती' (५।३।१३) तुम्प्र० । इट् । अनेन दीर्घः ।
[ ग्रहीषीष्ट ] ग्रह् । आशीः सीष्ट । इट् । अनेन दीर्घः ।
[ ग्रहीष्यति ] ग्रह् । भविष्यन्ती स्यति । इट् । अनेन दीर्घः ।
[अग्रहीष्यत्] ग्रह् । क्रियातिपत्तिः स्यत् । इट् । अनेन दीर्घः । ' अड् धातोरादि०' (४।४।२९) अट् ।
[ अग्रहीत्] ग्रह् । अद्यतनी दित् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दि- स्योः ' ( ४ | ३ |६५ ) ईत् । इट् । अनेन दीर्घः । 'व्यञ्जनादेर्योपान्त्यस्याऽतः' ( ४ | ३ | ४७ ) इत्यनेन वृद्धिः प्राप्ता न श्वि-जागृ-शस-क्षण-हू-म्येदितः ' ( ४।३।४९) इति निषिध्यते । दीर्घस्य स्थानिवद्भावाद् 'इट ईति' ( ४ | ३ | ७१ ) इति सिचो लुक् । न चायं वर्णविधिः । इट इति रूपाश्रयत्वात् । 'समानानां तेन दीर्घः' (१।२1१ ) दीर्घः । ' अड् धातोरादि० ' ( ४।४।२९) अट् ।
[अग्रहीध्वम्, अग्रहीढ्वम् ] ग्रह् । अद्यतनी ध्वम् । शेषं पूर्ववत् । इट् । 'सो धि वा' ( ४।३।७२) सिचो लुपि 'हान्तस्थाज्ञीड्भ्यां वा' (२।१।८१) धस्य ढ इति विशेषः ।
[ जरीगृहिता ] ग्रहू । भृशं पुनः पुनर्वा गृह्णाति । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) यप्र० । 'सन्-यडञ्च' ( ४1१1३) द्विः । ‘ऋतोऽत्’ (४।१।३८) ऋ० अ० । 'ग- होर्ज:' ( ४।१।४०) ग० ज० । 'ऋमतां री' (४।१।५५ ) “री” आगमः । श्वस्तनी ता । जरीगृह्यते इति वा । 'णक-तृचौ' (५।१।४८) तृच्प्र० तृ । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट्, पूर्वं 'ग्रह-वस्- भ्रस्ज- प्रच्छ: ' ( ४|११८४) य्वृत् ।
[जरीगृहितुम्] जरीगृ(ग्र)हणाय । 'क्रियायां क्रियार्थायां ० ' (५।३।१३) तुम्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । [जरीगृहितव्यम्] जरीगृह्यत इति । 'तव्या - ऽनीयौ ' ( ५1१।२७) तव्यप्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'अतः' (४।३।८२) अलुक् । 'योऽशिति' (४।३।८०) यलुक् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org