________________
Ammmmmmm
mmommmmmmmmm
wwwmomwwwmwarawa
२४८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ठिका । [योत्रम्] ‘युक् मिश्रणे' (१०८०) यु । यूयतेऽनेन । 'नी-दाव-शसू-यु-युज०' (५।२।८८) त्रटप्र० →त्र । नामिनो गुणोऽक्डिति' (४।३19) गु० ओ ।
[पत्त्रम्] ‘पत्लु गतौ' (९६२) पत् । पत्यतेऽनेन । 'नी-दाव्-शसू-यु-युज०' (५।२।८८) त्रटप्र० -→ त्र ।
[पोत्रम्] 'पूङ् पवने' (६००) पू । पूयतेऽनेनेति । 'हल-क्रोडाऽऽस्ये पुवः' (५।२।८९) त्रटप० →त्र । 'नामिनो गुणोऽक्डिति' (४।३१) गु० ओ । हस्तसूकरयोर्मुखं पा(पो)त्रम् । सि-अम् ।
[वत्सः] 'वद व्यक्तायां वाचि' (९९८) वद् । वदति मातरं दृष्ट्वेति । 'मा-वा-वद्यमि-कमि-हनि-मानि-कष्यशि-पचिमुचि-यजि-वृ-तृभ्यः सः (उणा० ५६४) सप्र० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) द० → त० ।
[अंसः] 'अम गतौ' (३९२) अम् । अमति = गच्छति अवतामिति अंसः । 'मा-वा-वद्यमि-कमि-हनि-मानि-कष्यशिपचि-मुचि-यजि-वृ-तृभ्यः सः' (उणा० ५६४) सप्र० ।
[दन्तः] शमू (१२३०) - ‘दमूच् उपशमे' (१२३१) दम् । दाम्यतीति दन्तः । 'दम्यमि-तमि-मा-वा-पू-धू-ग-~-हसिवस्यसि-वितसि-मसीण्भ्यस्तः' (उणा० २००) तप० । 'तौ मुमो व्यञ्जने स्वौ' (१।३।१४) म्० → अनुस्वारः । सर्वत्र प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते विसर्गस्तयोः' (१।३।५३) विसर्गः ।
हस्तः] 'हसे हसने' (५४५) हस् । हसन्त्यनेनेति हस्तः । 'दम्यमि-तमि-मा-वा-पू-धू-ग-ज-हसि-वस्यसि-वितसिमसीण्भ्यस्तः' (उणा० २००) तप्र० । प्रथमा सि । 'सो रुः' (२१७२) स० → र० । 'रः पदान्ते०' (११३५३) विसर्गः ।।छ।।
तेहादिभ्यः ।।४।४।३३।। [तेः] ति षष्ठी डस् । [ग्रहादिभ्यः] ग्रह आदिर्येषां ते = ग्रहादयस्तेभ्यः = ग्रहादिभ्यः । पञ्चमी भ्यस् ।
तेरिति सामान्येन क्तेस्तिको वा ग्रहणम् । [निगृहीतिः] ‘ग्रहीश् उपादाने' (१५१७) ग्रह, निपूर्व० । निग्रहणं = निगृहीतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । अनेन इट् । 'ग्रह-वस्च-भ्रस्ज-प्रच्छः' (४191८४) वृत् । 'गृहणोऽपरोक्षायां दीर्घः' (४।४।३४) दीर्घः ।
[अपस्निहितिः] “ष्णिहोच् प्रीती' (१२४१) ष्णिह् । 'षः सोऽष्ट्यै-ष्टिव-ष्वष्कः' (२।३।९८) स्निह्, अपपूर्व० । अपस्नेहसनं = अपस्निहितिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । अनेन इट् ।
[निकुचितिः] 'कुचत् संकोचने' (१४३१) कुच्, निपूर्व० । निकोचनं = निकुचितिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० →ति । अनेन इट् ।
निपचितिः] 'पठ व्यक्तायां वाचि' (२१३) पठ्, निपूर्व० । निपठ् = निपठितिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । अनेन इट् ।
. [उदितिः] ‘उन्दैप् क्लेदने' (१४९१) उन्न् । उन्दनं = उदितिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । अनेन इट् । 'नो व्यञ्जनस्याऽनुदितः' (४।२।२५) नलुक् ।
P.4 वदति मातरमव्यक्तमिति वत्सः ।
P.35 हसति मुखमावृत्य = हस्तः ।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org