________________
अथ चतुर्थाध्यायस्य चतुर्थः पादः ।।
२४७
लिसिस
__ [अलविष्ट] 'लूग्श् छेदने' (१५१९) लू । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिंच । अनेन इट् । 'नामिनो गुणोऽक्डिति' (४।३१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'अड् धातोरादि०' (४।४।२९) अट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ८० ।
[लविषीष्ट] लू । आशीः सीष्ट । अनेन इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
[लविष्यति] लू । भविष्यन्ती स्यति । अनेन इट् । 'नामिनो गुणो०' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
[अलविष्यत् लू । क्रियातिपत्तिः स्यत् । अनेन इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'अड् धातोरादि०' (४।४।२९) अट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
[लविता] लू । लुनातीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ । अनेन इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव' (१।२।२४) अव ।
[लवितव्यम्] लू । लूयते । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । अनेन इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ।
[लवितुम्] लू । लवनाय । ‘क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । अनेन इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ।
[त्रस्नुः] ‘त्रसैच् भये' (११७१) त्रस् । त्रस्यतीत्येवंशीलः । 'त्रसि-गृधि-धृषि-क्षिपः क्नुः' (५।२।३२) क्नुप्र० → नु ।
[स्योमा] ‘षिवूच् उतौ' (११६४) षिव् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सिव् । सीव्यतीति । 'मन्-वन्क्वनिप्-विच् क्वचित्' (५।१।१४७) मन्प्र० । ‘अनुनासिके च च्छ्वः शूट्' (४।१।१०८) ० → ऊट् । 'नामिनो गुणो०' (४।३।१) गु० ओ । प्रथमा सि । ‘नि दीर्घः' (१।४।८५) दीर्घः । ‘दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[भूयात्] 'भू सत्तायाम्' (१) भू । आशीः क्यात् → यात् ।
[दीप्रः] 'दीपैचि दीप्तौ' (१२६६) दीप् । दीप्यत इत्येवंशीलः = दीपः । ‘स्म्यजस-हिंस-दीप-कम्प-कम-नमो रः' (५।२७९) रप० ।
[ईश्वरः] 'ईशिक् ऐश्वर्ये' (१११६) ईश् । ईष्टे । 'स्थेश-भास-पिस-कसो वरः' (५।२।८१) वरप्र० ।
[विद्वान्] 'विदक् ज्ञाने' (१०९९) विद् । वेत्तीति । ‘वा वेत्तेः क्वसुः' (५।२।२२) क्वसुप्र० → वस् | प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'न्स्महतोः' (१।४।८६) दीर्घः । 'दीर्घङ्याव्०' (१।४।४५) सिलुक् । ‘पदस्य' (२।१।८९) सलोपः ।
[आस्से] 'आसिक् उपवेशने' (१११९) आस् । वर्त० से । [आस्ते] आस् । वर्त० ते ।
[शस्त्रम्] 'शसू हिंसायाम्' (५४९) शस् । शस्यतेऽनेनेति । 'नी-दाव्-शसू-यु-युज-स्तु-तुद-सि-सिच-मिह-पत-पानहस्त्रट' (५।२।८८) त्रटप० → त्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org