________________
२४०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । [अध्यगाताम्] इ, अधिपूर्व० । अनेन गा । अद्यतनी ताम् । 'सिजद्यत०' (३।४।५३) सिच् । 'पिबैति-दा-भू०' (४।३।६६) सिचलुप् । 'अड् धातोरादि०' (४।४।२९) अट् ।
__ [अध्यगुः] इ, अधिपूर्व० । अनेन गा । अद्यतनी अन् । 'सिग्विदोऽभुवः' (४।२।९२) अन्० → “पुस्"आदेशः → उस्० । 'पिबैति-दा-भू-स्थः सिचो लुप्०' (४।३।६६) सिचूलुप् । ‘इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलुक् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अध्यगायि भवता] इ, अधिपूर्व० । अनेन गा । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) जिच् → इ-तलोपश्च । 'आत ऐ: कृौ ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । 'अड् धातोरादि०' (४।४।२९) अट् । भवत् तृतीया टा छ।।
णावज्ञाने गमुः ।।४।४।२४||
[णौ] णि सप्तमी ङि ।
[अज्ञाने] न ज्ञानमज्ञानम्, तस्मिन् । [गमुः] गमु प्रथमा सि ।
[गमयति, गमयतः, गमयन्ति ग्रामम] 'इंण्क् गतौ' (१०७५) इ । यन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० → इ । अनेन इ० → गम्० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । ‘अमोऽकम्यमि-चमः' (४।२।२६) हूस्वत्वम् । वर्त्त० तिव्-तस्-अन्ति । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[अधिगमयति, अधिगमयतः, अधिगमयन्ति प्रियम्] 'इंक् स्मरणे' (१०७४) इ, अधिपूर्व० । अधियन्तं अधीयन्तं वा प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० → इ । अनेन गम्० । शेषं पूर्ववत् ।
अज्ञान इतीणो विशेषणं नेकोऽसंभवात, धात्वन्तरेणैव सिद्धे णाविको ज्ञानादन्यत्रेणश्च रूपान्तरनिवृत्त्यर्थं वचनम् ।
[अर्थान् गमयन्ति शब्दाः] अर्थ द्वितीया शस् । अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीमृ (३९५) - 'गम्लूं गतौ' (३९६) गम् । गच्छन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धि:
आ । 'अमोऽकम्यमि-चमः' (४।२।२६) ह्रस्वः । वर्त्त० अन्ति । 'कर्त्तर्यनभ्यः शव' (३।४।७१) शव । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (११२।२३) अय् ।।छ।।
सनीडश्च ||४|४|२५|| [सनि] सन् सप्तमी ङि । [इङः] इङ् षष्ठी डस् । [च] च प्रथमा सि । अज्ञान इति इण एव विशेषणम्, न इकिडोरसंभवात् ।
[अधिजिगांसते विद्याम] 'इंकू अध्ययने' (११०४) इ, अधिपूर्व० । अध्येतुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । अनेन “गम्" आदेशः । द्वि: । 'ग-होर्जः' (४।१।४०) ग० → ज० । 'सन्यस्य' (४।११५९) इ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org