SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ [आवधिषाताम् आहसाताम्] हन्, आड्पूर्व० । अनेन " वध" आदेश: । 'आडो यम-हनः स्वेऽङ्गे च' (३१३.१८६) इत्यात्मनेपदम् । अद्यतनी आताम् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'अतः ' (४।३।८२) अलुक् । 'नाम्यन्तस्था० ' (२।३।१५) पत्वम् । पक्षे 'हनः सिच्' (४।३।३८) सिचुकिद्वत् । ' यमि-रमि-नमि-गमिहनि०' (४/२/५५) नलुक् । [ आवधिषत, आहसत] हन्, आड्पूर्व० । अनेन " वध" आदेश: । 'आझे यम-हनः स्वेऽङ्गे च ' ( ३।३।८६ ) इत्यात्मनेपदम् । अद्यतनी अन्त । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । अतः (४।३।८२) अलुक् । ‘नाम्यन्तस्था०' (२।३।१५) पत्वम् । पक्षे 'हनः सिच्' (४।३।३८) सिच्किद्वत् । 'यमि-रमि-नमि-गमिहनि० (४/२/५५) नलुक् । 'अनतोऽन्तोदात्मने' (४।२।११४) अन्त० अत० । [ अवधि, अघानि] हन् । अनेन वध | अद्यतनी त । 'भावकर्मणोः ' ( ३।४।६८) ञिच् इ-तलोपश्च । 'अड् धातोरादि०' (४।४।२९) अट् । 'अतः (४।३।८२) अलुक् । पक्षे ( ञिणवि घन्' (४|३|१०१) "घन्” आदेशः । 'ञ्णिति' ( ४ | ३ |५०) उपान्त्यवृद्धिः आ । 'अड् धातोरादि०' (४।४।२९) अट् इति विशेषः । [आजघ्ने] हन्, आड्पूर्व० । परोक्षा ए । 'द्विर्धातुः परोक्षा-ङे प्राक्०' (४|१1१ ) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ग- होर्जः' (४।१।४०) ह० ज० । 'गम हन जन खन घस: ० (४।२।४४) अलुक् । 'नो नो घ्नः' (२|१|११२) घ्नादेशः ||छ || इणिकोर्गा ||४|४|२३ ॥ २३९ [ इणिको: ] इण् च इक् च = इणिकी, तयोः [गा ] गा प्रथमा सि । सूत्रत्वात् लुप् । [ अगात्] 'इंण्क् गती' (१०७५) इ । अनेन "गा" आदेशः । अद्यतनी दित् । सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'पिबैति-दा-भू-स्थः सिचो लुप् परस्मै न चेट्' (४|३|६६) सिच्लुप् । 'अड् धातोरादि०' ( ४।४।२९) अट् । = इणिकोः । षष्ठी ओस् । Jain Education Intemational [ अगाताम्] इ । अनेन "गा" आदेशः । अद्यतनी ताम् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । 'पिवैति-दा-भू०' (४।३।६६) सिच्लुप् । 'अड् धातोरादि० ' ( ४।४।२९) अट् । [ अगुः ] इ । अनेन "गा" आदेशः । अद्यतनी अन् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । 'सिज्-विदोऽभुवः ' (४।२।९२) अन्० " पुस्०" आदेश: उस्० । 'पिबैति - दा भू० ' ( ४ | ३ |६६) सिच्लुप् । 'इडेत्-पुसि चाऽऽतो लुक् (४।३।९४) आलुक् । 'अड् धातोरादि०' (४।४।२९) अट् । अत्र विषयव्याख्यां विना अगादित्यादिषु सिचो लुप्येव सति स्यात्, न तु अगायीत्यत्र ञिचा व्यवधानात् । [ अगायि भवता] इ । अनेन गा । अद्यतनी त । 'भाव-कर्मणोः ' ( ३।४।६८) ञिच्इ-तलोपश्च । 'आत ऐ: कृञ्ञी' (४।३।५३) आ० ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । 'अड् धातोरादि०' (४।४।२९) अट् । भवत् तृतीया टा । [ अध्यगात् ] 'इंक् स्मरणे' (१०७४) इ, अधिपूर्व० । अनेन "गा" आदेशः । अद्यतनी दित् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'पिवैति-दा-भू-स्थः सिचो लुप्०' (४ | ३ |६६) सिचलुप् । 'अड् धातोरादि०' (४।४।२९) अट् । For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy