SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ २४१ ‘स्वर-हन-गमोः सनि धुटि' (४।१।१०४) दीर्घः । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१). शव् । 'लुगस्यात्यपदे' (२११११३) अलुक् ।। [जिगमिषति ग्रामम्] 'इंण्क् गतौ' (१०७५) इ । एतुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । अनेन गम्० । द्विः । 'ग-होर्जः' (४।१।४०) ग० → ज० । 'सन्यस्य' (४।११५९) इ । 'गमोऽनात्मने' (४।४५१) इट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त० तिव् । [मातुरधिजिगमिषति] मातृ षष्ठी डस् । ‘इंक् स्मरणे' (१०७४) इ, अधिपूर्व० । अध्येतुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । अनेन गम्० । द्विः । 'ग-होर्जः' (४११४०) ग० →ज० । 'सन्यस्य' (४१५९) इ । 'गमोऽनात्मने' (४।४५१) इट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [अर्थान् प्रतीषिषति] अर्थ द्वितीया शस् । प्रति ‘इंण्क् गतौ' (१०७५) इ । प्रत्येतुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'स्वराऽऽदेर्द्वितीयः' (४।१।४) सनो द्वित्वम् । 'समानानां०' (१४२११) दीर्घः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् छ।। गा परोक्षायाम् ।।४।४।२६॥ [गा] गा प्रथमा सि । सूत्रत्वात् लुप् । [परोक्षायाम्] परोक्षा सप्तमी ङि । 'आपो डितां ये-यास्-यास्-याम्' (१।४।१७) याम् । [अधिजगे] 'इंड्क् अध्ययने' (११०४) इ, अधिपूर्व० । अनेन परोक्षाविषये "गा" आदेशः । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे प्राक तु स्वरे स्वरविधेः' (४1919) द्विः । 'इस्वः' (४१३९) इस्वः । 'ग-होर्जः' (४191४०) ग० → ज० । 'इडेत्-पुसि०' (४।३।९४) आलुक् । [अधिजगाते] इ, अधिपूर्व० । अनेन परोक्षाविषये "गा" आदेशः । परोक्षा आते । शेषं 'अधिजगे'वत् । [अधिजगिरे इ, अधिपूर्व० । अनेन परोक्षाविषये "गा" आदेशः । परोक्षा इरे । शेषं 'अधिजगे' वत् । [अधिजगिषे] इ, अधिपूर्व० । अनेन परोक्षाविषये “गा" आदेशः । परीक्षा से । 'द्विर्धातुः परोक्षा-डे०' (४1919) द्विः । 'हस्वः' (४।१।३९) ह्रस्वः । 'ग-होर्जः' (४।१।४०) ग० → ज० । 'स्क्रसृ-वृ-भृ-स्तु-दु-श्रु-स्रोर्व्यञ्जनादेः परोक्षायाः' (४।४।८१) इट् । 'इडेत्-पुसि०' (४।३।९४) आलुक् छ।। णो सन-डे वा ।।४।४।२७।। [णौ] णि सप्तमी ङि । [सन्डे] सन् च डश्च = सन्डम्, तस्मिन् । [वा] वा प्रथमा सि । [अधिजिगापयिषति, अध्यापिपयिषति] 'इंङ् अध्ययने' (११०४) इ, अधिपूर्व० । अधीयानं प्रयोक्तुमिच्छति । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । अनेन इ० → “गा" आदेशः । 'अतिरी-व्ली-ही-क्नूयि-क्ष्माय्यातां पुः' (४।२।२१) पोऽन्तः । इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । द्वितीये 'णौ क्री-जीङ.' (४१२११०) इ० → आ० । 'अर्ति-री Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy