SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ॥ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ अस्ति-बुवोभू-वचावशिति ।।४।४।१।। [अस्तिबुवोः] अस्तिश्च बूश्च = अस्तिब्रुवौ, तयोः = अस्तिबुवोः । षष्ठी ओस् । संयोगात्' (२।१।५२) उव् । [भूवचौ] भूश्च वच् च = भूवचौ । [अशिति] श् इद्नुबन्धो यस्याऽसौ शित्, न शित् = अशित्, तस्मिन् = अशिति । अशिति प्रत्यये विषये(य)भूते । [अभूत्] 'असक् भवे(भुवि)' (११०२) अस् । अनेन “भू"आदेशः । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'पिबैति-दा-भू-स्थः सिचो लुप् परस्मै न चेट्' (४।३।६६) सिच्लुप् । 'भवतेः सिज्लुपि' (४।३।१२) इति गुण-वृद्ध्योः प्रतिषेधः । ‘अड् धातोरादि०' (४।४।२९) अट् । [बभूव] अस् । अनेन भू० । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे प्राक्०' (४।१।१) "भू' द्विः । ‘ह्रस्वः' (४।१।३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वो' (४।१।४२) भ० → ब० । 'भू-स्वपोरदुतौ' (४।१७०) उ० → अ० । 'नामिनोऽकलिहलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव' (१।२।२४) आव् । 'भुवो वः परोक्षा-ऽद्यतन्योः ' (४।२।४३) आ० →ऊ० । [भविता] अस् । अनेन भू० । श्वस्तनी ता । इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (११२।२४) अव् । [भूयात्] अस् । अनेन भू० । आशीः क्यात् → यात् । [अभविष्यत्] अस् । अनेन भू० । क्रियातिपत्तिः स्यत् । इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव । 'अड् धातोरादि०' (४।४।२९) अट् । [भविष्यति] अस् । अनेन भू० । भविष्यन्ती स्यति । इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [बोभूयते] अस् । अनेन भू० । भृशं पुनः पुनर्वा भवति । 'व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ् वा' (३।४।९) यड्स० । 'सन्-यडश्च' (४।१।३) “भू"द्वि: । 'ह्रस्वः' (४।१।३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वो' (४।१।४२) भु 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । वर्त्त० ते । ‘कर्त्तर्यनभ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [बभूषति] अस् । अनेन भू० । भवितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सनप्र० । 'सन्-यडश्च' Jain Education Intemational Education Intermational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy