SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २१६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका । अस् च लौल्ये ॥४।३।११५।। [अस्] अस् प्रथमा सि । 'दीर्घङ्याब्-व्यञ्जनात् सेः' (१।४।४५) सिलोपः । [च] च प्रथमा सि । [लौल्ये] लोलस्य भावः = लौल्यम् । 'पति-राजान्त-गुणाङ्ग-राजादिभ्यः कर्मणि च' (७।१।६०) ट्यणप्र० → य । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० लौ । ‘अवर्णवर्णस्य' (७।४।६८) अलुक् । तस्मिन् । [दधिस्यति, दध्यस्यति दधि | दधि भक्षितुमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० । अनेन स्असोऽन्तश्च । 'इवर्णादरस्वे स्वरे य-व-र-लम्' (१।२।२१) य० । [मधुस्यति, मध्वस्यति] मधु । मधु भक्षितुमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य । अनेन स्-असोऽन्तश्च । ‘इवर्णादेरस्वे स्वरे०' (१।२।२१) व० । [क्षीरस्यति] क्षीरं भक्षितुमिच्छति । ‘अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० । अनेन सोऽन्तः → स्० वा । लवणस्यति लवणं भक्षितुमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य । अनेन सोऽन्तः → स्० वा । अस्विधानमनकारार्थः । अकारान्तेषु हि 'लुगस्यादेत्यपदे' (२।१।११३) इति लुकि सति विशेषो नास्ति । इति श्रीसिद्धहेमव्याकरणे बृहद्वृत्त्यवचूरिकायामाख्याते चतुर्थस्याध्यायस्य तृतीयः पादः । महाभारते हि कर्णः पाण्डवभ्राता सिन्धुराजश्च जयद्रथोऽर्जुनेन हत इत्युक्तमस्ति ।।छ।। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy