________________
अथ चतुर्थाध्यायस्य तृतीयः पाद: ॥
[अन्तः] अन्त प्रथमा सि ।
अन्तः(न्त)शब्दाभावे सर्पिष्ष्यतीत्यत्रोत्तरेण सागमे तस्य च प्रत्ययत्वात् 'नाम सित्' (१।१।२१) इत्यनेन सर्पिस्शब्दस्य पदत्वे सो रुत्वं स्यात्तस्य 'श-ष-से श-ष-सं वा' (१३१६) इति वा रस्य सत्वे सर्पिःस्यति सर्पिरस्यति इति रूपद्वयं स्यात् । अन्तः (न्त)-सद्भावे त्ववयवत्वेनाऽविभक्त्यन्तात् सकारस्योत्पादे तन्मध्यत्वात् प्रकृतिसस्य 'नाम्यन्त०' (२।३।१५) इति पत्वे 'सस्य श-षौ' (१।३।६१) इति प्रत्ययस्य षत्वे सर्पिष्ष्यतीति स्यात् ।
[वृषस्यति गौः] वृष । वृषमिच्छति । 'अमाव्ययात् क्यन च' (३।४।२३) क्यन्प्र० → य । अनेन सोऽन्तः → स् ।
वृषाऽश्वशब्दावत्र मैथुने वर्त्तते ।
[सा क्षीरकण्ठकं वत्सं वृषस्यन्ती न लज्जिता] सा क्षीरकण्ठकं वत्सं मैथुनेच्छायां वर्त्तमानौ क्व दृष्टावित्याह-रामोक्तिः । सा क्षीरेत्यादि । क्षीरं कण्ठे यस्य । ‘शेषाद् वा' (७।३।१७५) कचप्र० → क० । वृपमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य । अनेन सोऽन्तः → स्० । वृषस्यतीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र०
→ अत् । 'अधातूदृदितः' (२।४।२) डी । 'अवर्णादश्नोऽन्तो वाऽतुरीड्योः ' (२११११५) अत० → अन्त । न लज्जिता । लज्जनं = लज्जा । 'भिदादयः' (५।३।१०८) अप्र० । आप् । लज्जा संजाता अस्य । 'तदस्य सञ्जातं तारकादिभ्य इतः' (७।११३८) इतप्र० ।
अत्र पूर्वार्द्धम्- "कुसुमायुधसंपातव्यथमानमतिः पुनः" ।
लक्ष्मणं सा वृपस्यन्ती महोक्षं गौरिवागमत] लक्ष्मण द्वितीया अम् । सा वृषस्यन्ती पूर्ववत् । महत्-उक्षन् मांडणी । महांश्चासावुक्षा च = महोक्षा । 'जात-महद्-वृद्धादुक्ष्णः कर्मधारयात्' (७।३।९५) अत्समासान्तः । 'नोऽपदस्य तद्धिते' (७।४।६१) अनुलुक् । 'जातीयैकार्थेऽच्चेः' (३।२७०) डाप्र० → आ । 'डित्यन्त्यस्वरादे:' (२११/११४) अन्त्यस्वरादिलोपः । द्वितीया अम् । गौरिवागमत् । अत्र पूर्वार्द्धम्- “अनेकं युगं जीविन्यायस्यास्त्रैवा त्रयोदशी'' इति ज्ञेयम् ।
[अधीयति] अश्वमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प० → य । 'क्यनि' (४।३।११२) अवर्ण० → ई० ।
[वृषीयति] वृषमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प० → य । 'क्यनि' (४।३।११२) ई० । रस इति द्विःसकारनिर्देशः षत्वं निषेधार्थः, तेन
[दधिस्यति] दधि । दधि भक्षितुमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प० → य । 'अस् च लौल्ये' (४।३।११५) सोऽन्तः → स्० । वर्त्त तिव् । ‘कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[मधुस्यति] मधु । मधु भक्षितुमिच्छति । ‘अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य । 'अस् च लौल्ये' (४।३।११५) सोऽन्तः →स् । वर्त्त० तिव । 'कतर्यनद्भ्यः शव' (३।४।७१) शव । 'लुगस्यादेत्यपदे' (२१११३) अलोपः ।
प्रसिद्धस्यैव पत्वस्य निषेधः, तेन सर्पिण्यतीत्यत्र 'सस्य श-पौ' (१।३।६१) इत्यनेनागमसकारस्य षत्वं भवत्येव, प्रसिद्धस्य तु दधिस्यतीत्यादिषु 'नाम्यन्तस्था०' (२।३।१५) इत्यनेन प्रतिपेधः ।।छ।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org