________________
१९२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । हारयिता] णिगन्तहारि मण्ड्यते । श्वस्तनी ता । इट् । 'नामिनो गुणोऽक्डिति' (४।३१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[कारयति] कारि । वर्त्तः तिव् । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । ‘एदैतोऽयाय' (१।२।२३) अय् ।
[हारयति] हारि । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए। 'एदेतोऽयाय्' (१।२।२३) अय् ।।छ।।
सेटक्तयोः ।।४।३१८४।। [सेटक्तयोः] क्तश्च क्तवांश्च = क्तौ । ‘स्यादावसंख्येयः' (३।१।११९) एकशेषः । सह इटा वर्त्तते = सेट, तौ = सेटौ । सेटौ च तौ क्तौ च = सेटक्ती, तयोः = सेटक्तयोः । सप्तमी ओस ।।
[कारितः, कारितवान्] 'डुकंग करणे' (८८८) कृ । कुर्वन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । 'नामिनोऽकलि-हलेः' (४१३५१) वृद्धिः आर । कार्यते स्म । कारयति स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० → त, क्तवतुप्र० → तवत् । ‘स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । अनेन णिग्लुक ।
हारितः, हारितवान्] 'हंग् हरणे' (८८५) ह । हरन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर । हार्यते स्म । ह(हा)रयति स्म । 'क्त-क्तवतू' (५।११७४) क्तप० →त, क्तवतुप्र० → तवत् । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । अनेन णिग्लुक् ।
[गणितः] 'गणण संख्याने' (१८७४) गण । 'चुरादिभ्यो णिच' (३।४।१७) णिचप्र० । 'अतः' (४।३।८२) अलोपः । गण्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । ‘स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । अनेन णिच्लुक् ।
[संज्ञपितः पशुः] 'ज्ञांश अवबोधने' (१५४०) ज्ञा । जानन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । अर्ति-री-व्ली-ही०' (४।२।२१) पोऽन्तः । 'मारण-तोषण-निशाने ज्ञश्च' (४।२।३०) ह्रस्वः । संज्ञप्यते स्म । 'क्त-क्तवतू' (५।११७४) क्तप्र० →त । इट् । अनेन णिगलुक् ।
[शाकितः, शाकितवान्] 'शक्लृट् शक्तौ' (१३००) शक् । शक्नुवन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः आ । शाक्यते स्म । शाकयति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त, क्तवतुप्र० → तवत् । इट्विषयेऽनेन णिग्लुक् । इट् । 'एकस्वरादनुस्वारेतः' (४।४।५६) इति सूत्रेण इनिषेधो न च वाच्यमेकस्वराद् विहिताभावादेवेहेनिषेधो न भविष्यति, किमर्थमिदमुक्तमिति, यतो विषय एव णिलोपापेक्षयेदं द्रष्टव्यम् ।।छ।।
आमन्ताल्वाय्येत्नावय ॥४।३८५॥ [आमन्ताल्वाय्येत्नौ] आम् च अन्तश्च आलुश्च आय्यश्च इत्नुश्च = आमन्ताल्वाय्येत्नु, तस्मिन् । [अय्] अय् प्रथमा सि । “दीर्घड्याब्-व्यञ्जनात् सेः' (१।४।४५) सिलुक् ।
[कारयांचकार] 'डुकुंग करणे' (८८८) कृ । चकार कश्चित् तमन्यः प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । परोक्षा णव् । 'धातोरनेकस्वरादाम्०' (३।४।४६) णव्० → आम्० । अनेन णिग्० → अय० । 'डुबंग करणे' (८८८) कृ । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) "कृ"द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'क-डश्चञ्' (४।१।४६) क० → च० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org