SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य तृतीयः पादः ॥ १९१ [आटिटत्] ‘अट गतौ' (१९४) अट् । अटन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'ठिणति' (४।३५०) उपान्त्यवृद्धिः आ । अद्यतनी दि→ त् । 'णि-श्रि-द्रु०' (३।४।५८) डप्र० → अ । 'स्वराऽऽदेर्द्वितीयः' (४।१४) “टि"द्विः । अनेन णिगुलुक । 'स्वरादेस्तासु' (४।४।३१) वृद्धिः आ । 'योऽनेकस्वरस्य' (२१११५६) यत्वे प्राप्ते प्रतिषेधोऽनेन । [आशिशत्] 'अशश भोजने' (१५५८) अश् । अश्नन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । 'ञ्णिति' (४१३५०) उपान्त्यवृद्धिः आ । अद्यतनी दि→ त् । ‘णि-श्रि-द्रु-सु०' (३।४।५८) ङप० । 'स्वरादेर्द्वितीयः' (४।१।४) "शि''द्विः । अनेन णिग्लुक् । 'स्वरादेस्तासु' (४।४।३१) वृद्धिः आ । योऽनेकस्वरस्य' (२१११५६) यत्वे प्राप्ते प्रतिषेधोऽनेन । [कारणा] 'डुकंग करणे' (८८८) कृ । कुर्वन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'नामिनोऽकलिहलेः' (४३५१) वृद्धिः आर् । कारणं = कारणा । 'नामिनो०' (४1३19) गुणः प्राप्नोति, अनेन निषेधः । 'णि-वेत्त्यासश्रन्थ-घट्ट-वन्देरनः' (५।३।१११) अनप्र० । अनेन णिग्लुक् । 'र-पृवर्णान्नो ण०' (२।३।६३) न० → ण० । 'आत्' (२।४१८) आप्प० → आ । द्वारा [हारणा] 'हृग् हरणे' (८८५) हृ । हरन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'नामिनोऽकलिहलेः' (४१३५१) वृद्धिः आर् | हारणं = हारणा । 'नामिनो०' (४।३।१) गु० एकारः प्राप्नोत्यनेन निषेधः । 'णि-वेत्त्यासश्रन्थ-घट्ट वन्देरनः' (५।३।१११) अनप्र० । अनेन णिगलुक । 'र-पृवर्णान्नो ण०' (२।३।६३) न० →ण० । 'आत्' (२।४।१८) आप्प० → आ । [कारकः] णिगन्तकारि मांडणी । कारयतीति । ‘णक-तृचौ' (५।१।४८) णकप्र० --→ अक । 'नामिनो०' (४।३।५१) वृद्धि प्राप्तावनेन णिग्लुक् । [हारकः] णिगन्तहारि मांडणी । हारयतीति । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । 'नामिनो०' (४।३।५१) वृद्धिप्राप्तावनेन णिग्लुक् । कार्यते] कारि । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'दीर्घश्च्चि -यड्-यक-क्येषु च' (४।३।१०८) दीर्घप्राप्तावनेन णिग्लुक् । [हार्यते] हारि । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'दीर्घश्च्चि -यङ्-यक-क्येषु च' (४।३।१०८) दीर्घप्राप्तावनेन णिग्लुक् । [प्रकार्य] प्रकारि । प्रकारणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'इस्वस्य त: पित्कृति' (४|४|११३) तोऽन्तप्राप्तावनेन णिगलुक सर्वत्र । इय-य-गुण-वृद्धि-दीर्घ-तागमानां वाधकोऽयम् । [चेतनः] 'चितिण संवेदने'(१८२६) चित् । 'चुरादिभ्यो णिच' (३।४।१७) णिचप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । अनियति विषयसप्तम्यपि निमित्तसप्तम्यां तु तृच प्रसज्येत । चेतयतीत्येवंशीला = चेतनः । अशिद्विषयोऽनेन णिगलुक, ततः 'इ-डितो व्यञ्जनाऽऽद्यन्तात्' (५१२१४४) अनप० । अन्यथा अनेकस्वरत्वात् 'निन्द-हिंस-क्लिश-खाद-विनाशि-व्याभाषाऽसूयाऽनेकस्वरात्' (५।२।६८) इत्यनेन णक एव स्यात् । कारयिता] णिगन्तकारि मण्ड्यते । श्वस्तनी ता । इट । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy