SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १७२ लुकमकृत्वा लुब्विधानं स्थानिवद्भावोऽभावार्थम् । [ अबोभोत्] भू । भृशं पुनः पुनर्वा अभूत् । 'व्यञ्जनादेरेकस्वरा०' ( ३।४।९) यप्र० । 'सन्-यङश्च' (४।१1३) "भू' 'द्विः । ह्रस्वः' (४।१।३९) ह्रस्वः । द्वितीय-तुर्ययो: पूर्वी' (४।१।४२) भु० बु० । 'आ-गुणावन्यादेः' (४।१।४८ ) गु० ओ । ‘बहुलं लुप्’ ( ३।४।१४ ) यङ्लुप् । अद्यतनी दित् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । अनेन लुप् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'अड् धातोरादि०' (४।४।२९ ) अटू, इत्यत्र न वृद्धिः ॥ छ || -प्रा-शा-छा-सो वा श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका । || ४ | ३ |६७ || तस्मात् । 'लुगाऽऽतोऽनापः ' (२।१।१०७) आलुक् । [ट्धेघाशाछासः ] ट्धेश्च घाश्च शाश्च छाश्च साश्च = तत् [वा ] वा प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । लुप्संनियोगे चैतेभ्य इट् न भवति । [अधात्, अधासीत्] 'ट्वें पाने' (२८) धे । 'आत् सन्ध्यक्षरस्य ' ( ४।२।१) धा । अद्यतनी दित् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । प्रथमे अनेन सिच्लुप् । द्वितीये 'सः सिजस्तेर्दि-स्यो:' ( ४ | ३ |६५ ) ईत् । ' यमि-रमि- नम्यातः सोऽन्तश्च' I (४।४।८६) इट्-सोऽन्तश्च । 'इट ईति' (४।३।७१) सिच्लोपः । 'समानानां०' (१।२1१) दीर्घः । 'अड् धातोरादि०' (४।४।२९) अट् । [ अघ्रात्, अधासीत् ] 'घां गन्धोपादाने' (३) घ्रा । अद्यतनी दित् । सिजद्यतन्याम्' ( ३।४।५३) सिच् । प्रथमेऽनेन सिलुप् । द्वितीये 'सः सिजस्तेर्दि- स्यो:' ( ४ | ३ |६५ ) ईत् । ' यमि-रमि-नम्यातः सोऽन्तश्च' (४।४।८६ ) इट्सोऽन्तश्च । ‘इट ईति’ (४।३।७१ ) सिच्लोपः । 'समानानां ० ' (१।२1१) दीर्घः । ' अड् धातोरादि० ' ( ४।४।२९) अट् । [अशात्, अशासीत्] ‘शच् तक्षणे' (११४७) शो । 'आत् सन्ध्यक्षरस्य' (४।२1१ ) शा । अद्यतनी दि→ त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । प्रथमेऽनेन सिच्लुप् । द्वितीये 'सः सिजस्तेर्दि-स्यो:' ( ४|३|६५ ) ईत् । ' यमि-रमिनम्यातः०' (४।४।८६) इट्-सोऽन्तश्च । 'इट ईति' (४।३।७१) सिच्लोपः । 'समानानां०' (१।२।१) दीर्घः । 'अड् धातोरादि० ' (४।४।२९) अट् । [अच्छात्, अच्छासीत्] दों (११४८) - 'छोंच् छेदने' (११४९) छो । 'आत् सन्ध्यक्षरस्य ' ( ४।२।१) छा । अद्यतनी दि → त् । ‘सिजद्यतन्याम् ' ( ३|४|५३) सिच् । प्रथमेऽनेन सिलुप् । द्वितीये 'सः सिजस्तेर्दिस्योः ' ( ४ | ३ |६५ ) ईत् । ' यमि-रमि-नम्यातः ०' (४।४।८६) इट् सोऽन्तश्च । 'इट ईति' (४।३।७१) सिच्लोपः । 'समानानां०' (१।२1१) दीर्घः । 'अड् धातोरादि०' (४।४।२९) अट् । Jain Education International [असात्, असासीत् ] ' षच् अन्तकर्मणि' (११५०) षो । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सो । क्षै (४२) - जैं (४३) 'सैं क्षये' (४४) सै । 'आत् सन्ध्यक्षरस्य ' ( ४।२।१) सा । अद्यतनी दित् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । प्रथमेऽनेन सिच्लुप् । द्वितीये 'सः सिजस्तेर्दि-स्यो:' ( ४ | ३ |६५ ) ईत् । ' यमि-रमि- नम्यातः ० ' ( ४।४।८६) इट्-सोऽन्तश्च । 'इट ईति' (४।३।७१) सिच्लोपः । 'समानानां०' (१।२1१) दीर्घः । 'अड् धातोरादि० ' ( ४।४।२९) अट् । [ अधिषातां स्तनौ वत्सेन] 'डुधांगक् धारणे च' (११३९) धा, अधिपूर्व० । अद्यतनी आताम् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'इश्च स्था-द:' ( ४ | ३ | ४१ ) आ० इ० । 'अड् धातोरादि०' (४।४।२९) अट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । स्तन प्रथमा औ । वत्स तृतीया टा । For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy