________________
अथ चतुर्थाध्यायस्य तृतीयः पादः ॥
वर्णविधित्वात्, व्यञ्जनं हि वर्ण इति ।
[अपात्] 'पां पाने' (२) पा । अद्यतनी दि । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । अनेन सिच्लुप् । 'अड् धातोरादि० ' (४।४।२९) अट् ।
[अगात्] 'इंण्क् गतौ' (१०७५) इ । अद्यतनी दि । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'इणिकोर्गा' ( ४/४/२३) इ० ) गादेशः । अनेन सिच्लुप् । 'अड् धातोरादि०' (४।४।२९) अट् ।
१७१
[अध्यगात् ] 'इंक् स्मरणे' (१०७४) इ, अधिपूर्व० । अद्यतनी दि । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'इणिकोर्गा' (४।४।२३) इ० गादेशः । अनेन सिच्लुप् । 'अड् धातोरादि० ' ( ४।४।२९) अट् ।
[अदात्] ‘डुदांग्क् दाने' (११३८) दा | अद्यतनी दि । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । अनेन सिच्लुप् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अधात् ] 'डुधांग्क् धारणे च ' (११३९) धा । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । अनेन सिच्लुप् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अभूत् ] 'असक् भवे (भुवि)' (११०२) अस् । अद्यतनी दित् । 'अस्ति ब्रुवोर्भू- वचावशिति' (४।४।१) अस्० → भू० ।
[अस्थात्] 'ष्ठां गतिनिवृत्तौ' (५) ष्ठा । ' षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्था । 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (न्या० सं० वक्षस्कार ( १ ) / सूत्र (२९)) स्था । अद्यतनी दित् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । अनेन सिच्लुप् ।‘अड् धातोरादि० ' ( ४।४।२९ ) अट् । सिज्लोपः परत्वादीतं बाधते ।
[अपासीत् वनं वा वस्त्रं वा] 'पांक् रक्षणे' (१०६७) पा । 'पैं शोषणे' (४७) पै । 'आत् सन्ध्यक्षरस्य' (४।२।१) पा । अद्यतनी दि → त् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । सः सिजस्तेर्दि- स्यो:' ( ४ | ३ |६५ ) ईत् । 'अड् धातोरादि०' (४।४।२९) अट् । वन द्वितीया अम् । वस्त्र द्वितीया अम् । वा प्रथमा सि ।
[ अदासीत् केदारं भोजनं वा] 'दांव्क् लवने' (१०७०) दा । 'दैव शोधने' (२९) दै । 'आत् सन्ध्यक्षरस्य' (४।२1१ ) दा । अद्यतनी दि → त् । ' सिजद्यतन्याम्' ( ३।४।५३) सिच् । सः सिजस्तेर्दि-स्यो:' ( ४।३।६५ ) ईत् । 'अड् धातोरादि० ' (४।४।२९) अट् ।
[अपासत पयांसि चैत्रेण] 'पां पाने' (२) पा । अद्यतनी अन्त । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'अनतोऽन्तोऽदात्मने' (४।२।११४) अन्त० अत० । 'अड् धातोरादि०' (४।४।२९) अट् । पयस् द्वितीया शस् । 'नपुंसकस्य शिः ' (१।४।५५) शि० इ० । 'धुटां प्राक्' (१।४।६६) नोऽन्तः । ' स्महतो : ' (१।४।८६) दीर्घः । चैत्र तृतीया टा ।
I
[व्यत्यभविष्ट ] भू, वि-अतिपूर्वकः । अद्यतनी त । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट् (४।४।२९) इट् । ‘नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् । ‘तवर्गस्य श्चवर्ग०' (१।३।६०) त०ट० । 'अड् धातोरादि० ' ( ४।४।२९) अट् ।
[उपास्थित ] स्था, उपपूर्व० । अद्यतनी त । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'इश्च स्था-द:' ( ४ | ३ | ४१) आ० → इ० । 'धुड्-ह्रस्वाल्लुगनिटस्त- थो:' ( ४।३।७०) सिच्लुक् । 'अड् धातोरादि०' (४।४।२९) अट् ।
वृहद्वृत्तौ - उपास्थिपत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org