SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [अलावीत्] 'लूग्श् छेदने' (१५१९) लू । अद्यतनी दि । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । अनेन ईत् । परस्मै ० ' ( ४ | ३ |४४) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'इट ईति' (४।३।७१) सिच्लुक् । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः । ' अड् धातोरादि०' (४।४।२९) अट् । १७० [ अलावी: ] लू । अद्यतनी सि । 'सिजद्यतन्याम् ' ( ३।४ । ५३) सिच् । अनेन ईत् । 'सिचि परस्मै ० ' ( ४।३।४४) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'इट ईति' ( ४ | ३ |७१) सिच्लुक् । ‘समानानां०' (१।२।१) दीर्घः । ' सो रुः' (२।१।७२) स०र० । 'रः पदान्ते० ' (१।३।५३) विसर्गः । 'अड् धातोरादि०' (४।४।२९) अट् । [आसीत्] 'असक्' भवे (भुवि ) ' (११०२) अस् । ह्यस्तनी दिव्त् । अनेन ईत् । ' एत्यस्तेर्वृद्धिः' (४।४।३०) वृद्धि अ० आ० । [आसीः] अस् । ह्यस्तनी सिव्स् । अनेन ईत् । ' एत्यस्तेर्वृद्धिः ' ( ४ |४| ३०) वृद्धिः अ० आ० । 'सो रुः (२।१।७२ ) स० २० । 'रः पदान्ते० ' (१।३।५३) विसर्गः । [अदात्] 'डुदांग्क् दाने' (११३८) दा । अद्यतनी दि । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'पिबैति-दा-भू-स्थः सिचो लुप्, परस्मै न चेट्' (४।३।६६) सिच्लुप् । 'अड् धातोरादि० ' ( ४।४।२९) अट् । [अभूत् ] 'असक् भवे (भुवि ) ' (११०२) अस् । अद्यतनी दि तू । 'अस्ति बुवोर्भू - वचावशिति' (४।४।१) अस्० → भू० । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'पिवैति - दा भू-स्थः सिचो लुप्०' (४।३।६६) सिच्लूप् । 'अड् धातोरादि० ' ( ४/४/२९ ) अट् । [अस्ति ] अस् । वर्त्त० तिद् [अस] अस् । वर्त्त० सिव् । 'अस्तेः सि हस्त्वेति' ( ४ | ३ |७३) सलोपः ||छ । पिबैति-दा-भू-स्थः सिचो लुप्, परस्मै न चेट् ||४ | ३ |६६ || [पिबैतिदाभूस्थः] पिवश्च एतिश्च दाश्च भूश्च स्थाश्च [सिचः ] सिच् षष्ठी डस् । [लुप्] लुप् प्रथमा सि । [ परस्मै ] परस्मैपद । परार्थं पदं [न] न प्रथमा सि । [च] च प्रथमा सि । [इट्] इट् प्रथमा सि । 'दीर्घड्याव् - व्यञ्जनात् से: ' (१।४।४५) सिलुक् “न चेट्” - इत्यत्र ननु इटा सहितस्य सिचो लोपेन पेचुष इत्यादौ उपादेशवत् सिध्यति, किमिट्वर्जनेन, 'यावत् संभवस्तावद्विधिः' (न्या० सं० वक्षस्कार ( १ ) / सूत्र (५६) इत्यनेन पश्चादपीट् स्यात्, न च पेचुष इत्यादावपि तथा स्यादिति वाच्यम्, यतस्तत्रोषादेशे कृते व्यञ्जनादित्वाभावः । अथ 'घसेकस्वराऽऽतः क्वसोः ' ( ४।४।८२ ) इत्यत्र क्वसोरित्युक्तं, न व्यञ्जनादि(दे)रिति चेत् ? न 'स्क्रसृ-वृ-भृ०' (४।४।८१ ) इत्यनेन सिद्धे तस्य नियमार्थत्वात्, अथ स्थानित्वे व्यञ्जनादित्वं न, P. सप्तमी ङि । Jain Education International तत्, तस्मात् । ‘लुगाऽऽतोऽनापः ' (२।१।१०७) आलुक् । परस्मैपदम् तस्मात् । 'ते लुग्वा' ( ३।२।१०८) पदलुक् । For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy