________________
अथ चतुर्थाध्यायस्य तृतीयः पादः ॥
१७३
ट्धेः पूर्वेण नित्यं प्राप्ते शेषेभ्योऽप्राप्ते विकल्पः ।।छ।।
तन्भ्यो
वा त-थासि न-णोश्च ।।४।३।६८।।
[तन्भ्यः] तन् पञ्चमी भ्यस् । [वा] वा प्रथमा सि । [तथासि] तश्च थास् च = तथास्, तस्मिन् । [न्णोः] न च ण च = न्णौ, तयोः = न्णोः । षष्ठी ओस । चि च प्रथमा सि ।
तत्संनियोगे च नकारस्य णकारस्य च लुब् भवति, न चेट् ।
[अतत, अतनिष्ट] 'तनूयी विस्तारे' (१४९९) तन् । अद्यतनी त । 'सिजद्यतन्याम्' (३।४१५३) सिच् । अनेन सिच् - नकारस्य च लुप् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अतथाः, अतनिष्ठाः] तन् । अद्यतनी थास् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन सिच-नस्य च लुप् । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३।६०) थ० → ठ० । 'अड् धातोरादि० (४।४।२९) अट् ।
[असत, असनिष्ट] ‘षणूयी दाने' (१५००) षण् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सन् । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन वा सिच-नस्य च लुप् । इट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'तवर्गस्य श्ववर्ग०' (१।३।६०) त० → ट० । ‘अड् धातोरादि०' (४।४।२९) अट् ।
[असथाः, असनिष्टाः] 'षणूयी दाने' (१५००) षण् । 'षः सोऽष्ट्यै०' (२।३।९८) सन् । अद्यतनी थास् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन वा सिच-नस्य च लुप् । इट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३।६०) थ० → ठ० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अक्षत, अक्षणिष्ट 'क्षणूग हिंसायाम्' (१५०१) क्षण । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन वा सिच-णस्य च लुप । इट | 'नाम्यन्तस्था०' (२।३।१५) षत्वम । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० ट० । धातोरादि०' (४।४।२९) अट ।
[अक्षथाः, अक्षणिष्याः] क्षण् । अद्यतनी थास् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन वा सिच्-णस्य च लुप् । इट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग०' (१३१६०) थ० → ठ० । 'अड् धातोरादि०' (४।४।२९) अट ।
[आतं, आणिष्ट] 'ऋणूयी गतौ' (१५०३) ऋण् । अद्यतनी त । ‘सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन वा सिच-णस्य च लुप् । 'स्वरादेस्तासु' (४।४।३१) वृद्धि: आर् । इट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग० (१।३।६०) त० → ट० ।
[आर्थाः, आणिष्टाः] ऋण । अद्यतनी थास् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन वा सिच-णस्य च लुप् । 'स्वरादेस्तासु' (४।४।३१) वृद्धिः आर् | इट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग०' (१३१६०) थ०
→ ठ० ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org