SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य तृतीयः पादः ॥ १५७ [धायः] 'डुधांग्क् धारणे च' (११३९) धा । धानं = धायः । ‘भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । अनेन आ० → ऐ० । 'एदैतोऽयाय' (१।२।२३) आय् । दायकः] दा । ददातीति । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । अनेन आ० → ऐ० । 'एदैतोऽयाय' (१।२।२३) आय् । [धायकः] धा । दधातीति । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । अनेन आ० → ऐ० । 'एदैतोऽयाय' (१२।२३) आय् । शतं दायी] शत द्वितीया अम् । शतं ददातीति । 'णिन् चाऽऽवश्यकाऽधमण्ये' (५।४।३६) णिन्प्र० →इन् । अनेन आ० → ऐ० । 'एदैतोऽयाय' (१।२।२३) आय् । प्रथमा सि । 'इन् हन्-पूषाऽर्यम्णः शिस्योः ' (१।४।८७) दीर्घः । 'दीर्घड्याब' (१।४।४५) सिलोपः । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः । एष्यदृणेनः' (२।२।९४) इत्यनेन कर्मणि षष्ठीनिषेधः । [गोदायो व्रजति] गो-दा । गां दास्यतीति । 'कर्मणोऽण्' (५।१७२) अण्प्र० → अ । अनेन आ० → ऐ०। ‘एदैतोऽयाय' (१।२।२३) आय् । [अदायि] दा । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) जिच → इ-तलोपश्च । अनेन आ० → ऐ० । ‘एदैतोऽयाय्' (१।२।२३) आय् । 'अड् धातोरादि०' (४।४।२९) अट् । [अधायि] धा । अद्यतनी त । ‘भाव-कर्मणोः' (३।४।६८) अिच् → इ-तलोपश्च । अनेन आ० → ऐ० । ‘एदैतोऽयाय' (१।२।२३) आय् । 'अड् धातोरादि०' (४।४।२९) अट् । [दायिष्यते] दा । भविष्यन्ती स्यते । ‘स्वर-ग्रह-दृश-हन्भ्यः स्य-सिजाशीः-श्वस्तन्यां जिट् वा' (३।४।६९) जिट्→इ । अनेन आ० → ऐ० । 'एदैतोऽयाय' (१।२।२३) आय । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । _ [धायिष्यते] धा । भविष्यन्ती स्यते । ‘स्वर-ग्रह-दृश-हन्भ्यः०' (३।४।६९) जिट् →इ । अनेन आ० → ऐ० । 'एदैतोऽयाय' (१।२।२३) आय् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । दिदौ] दा । परोक्षा णव । 'द्विर्धातुः परोक्षा-डे०' (४1१1१) द्विः । 'इस्वः' (४|११३९) ह्रस्वः । 'आतो णव औ' (४।२।१२०) औ । 'ऐदौत् सन्ध्यक्षरैः' (१।२।१२) औ । [दापयति] दा । ददतं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । 'अर्ति-री-व्ली-ही-क्नूयि-क्ष्माय्यातां पुः' (४।२।२१) पोऽन्तः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (११२१२३) अय् ।।छ।। न जन-बधः ।।४।३।५४|| [न] न प्रथमा सि । [जनबधः] जनश्च बध् च = जनबध्, तस्य । [प्रजनः] 'जनैचि प्रादुर्भावे' (१२६५) जन्, प्रपूर्व० । प्रजननं = प्रजनः । ‘भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । [प्रजन्यः] जन्, प्रपूर्व० । प्रजन्यते = प्रजन्यः । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy