SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १५६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । जागुर्जि-णवि ।।४।३।५२।। [जागुः] जागृ षष्ठी डस् । 'ऋतो डुर्' (१।४।३७) डस्० → डु० → उ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । [जिणवि] जिश्च ण च = जिणव्, तस्मिन् । [अजागारि जाग । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) जिच् → इ-तलोपश्च । अनेन वृद्धिः आर् | 'अड़ धातोरादि०' (४।४।२९) अट् । [जागारिष्यते] जागृ । भविष्यन्ती स्यते । ‘स्वर-ग्रह-दृश-हन्भ्यः स्य-सिजाशीः-श्वस्तन्यां जिट् वा' (३।४।६९) जिट् → इ । अनेन वृद्धिः आर् । 'नाम्यन्तस्था-कवर्गात् पदान्तः कृतस्य०' (२।३।१५) षत्वम् । [जजागार] जागृ । परोक्षा णव् । 'आद्योऽश एकस्वरः' (४।१।२) “जा"द्विः । ‘ह्रस्वः' (४।१।३९) हूस्वः । अनेन वृद्धिः आर् । [जागरयति] जागृ । जाग्रतं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० →इ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । न तु वृद्धिः । वर्त० तिव् । 'कतर्यनद्भ्यः शव्' (३।४।१) शव् । गु० ए । अय् । [जागरकः] जागृ । जागर्तीति । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । [साधुजागरी] साधु-जागृ । साधु जागर्तीति । ‘साधौ' (५।१।१५५) णिन्प्र० → इन् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । प्रथमा सि । ‘इन्-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । 'दीर्घड्याव्०' (१।४।४५) सिलोपः । 'नाम्नो नोऽनहनः' (२।१।९१) नलोपः । [जागरंजागरम्] जागृ । अभीक्ष्णं जागरणं पूर्वम् । 'ख्णम् चाभीक्ष्ण्ये' (५।४।४८) ख्णम्प्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'भृशा-5ऽभीक्ष्ण्या-ऽविच्छेदे द्विः प्राक् तमबादेः' (७।४।७३) द्वित्वम् । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलोपः । [जागरो वर्तते] जागरणं = जागरः । ‘अच्' (५।१।४९) अच्प्र० → अ । “नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् | प्रथमा सि । पूर्वेणैव सिद्धे नियमार्थो योगः ॥छ।। आत ऐ: कृऔ ||४३१५३|| [आतः] आत् षष्ठी डस् । [ऐ:] ऐ प्रथमा सि । 'सो रुः' (२।१७२) स० → २० । [कृऔ] कृत्-जि । कृच्चासौ ञिश्च = कृञि, तस्मिन् । 'डिौँ' (१।४।२५) ङि० → डो० → औ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) इलोपः । [दायः] 'डुदांग्क् दाने' (११३८) दा । दानं = दायः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । अनेन आ० → ऐ० । ‘एदैतोऽयाय्' (१।२।२३) आय् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy