________________
अथ चतुर्थाध्यायस्य तृतीयः पादः ॥
[ अयावि] 'युक् मिश्रणे ' (१०८० ) यु । अद्यतनी त । 'भावकर्मणोः ' ( ३।४।६८) ञिच् इ-तलोपश्च । अनेन वृद्धिः औ । 'ओदौतोऽवाव् ' (१।२।२४ ) आव् । 'अड् धातोरादि० ' ( ४।४।२९) अट् ।
[अलावि] 'लूग्श् छेदने' (१५१९) लू । अद्यतनी त । 'भाव-कर्मणोः ' ( ३।४।६८) ञिच् इ-तलोपश्च । अनेन वृद्धिः औ । ‘ओदौतोऽवाव्' (१।२।२४) आव् । 'अड् धातोरादि० ' ( ४।४।२९) अट् ।
[ अकारि] 'डुकंग् करणे' (८८८) कृ । अद्यतनी त । 'भाव- कर्मणोः ' ( ३।४।६८) ञिच्इ-तलोपश्च । अनेन वृद्धिः आर् । ‘अड् धातोरादि०' (४।४।२९) अट् ।
[अतारि] 'तू प्लवन-तरणयोः' (२७) तृ । अद्यतनी त । 'भाव - कर्मणोः ' ( ३।४।६८) ञिच् इ-तलोपश्च । अनेन वृद्धि: आर् । 'अड् धातोरादि०' (४।४।२९) अट् ।
१५५
[कारः ] कृ । करणं = कारः । भावा- ऽकर्त्री : ' ( ५।३।१८) घञ्प्र० अ । अनेन वृद्धिः आर् । [हारः] ‘हंग् हरणे' (८८५) ह । हरणं = हारः । भावा - ऽकर्त्रीः ' (५।३।१८) घञ्प्र० अ । अनेन वृद्धिः आर् । [[चिकाय] 'चिंगुट् चयने' (१२९० ) चि । परोक्षा णव् । 'द्विर्धातुः परोक्षा- डे० ' ( ४1919) द्वि: । 'चेः किर्वा ' (४।१।३६) चि० कि० । अनेन वृद्धिः 'एदैतोऽयाय् ' (१।२।२३) आय् ।
[ अपीपटत्] पटु । पटुमाख्यातवान् । 'णिज्बहुलं नाम्नः कृगादिषु ( ३।४।४२) णिच्प्र० । अनेन वृद्धिः औ । 'त्रन्त्यस्वरादेः' (७।४।४३) औलोपः । अद्यतनी दित् । 'णि श्रिद्रु-सु-कमः कर्त्तरि ङः ' ( ३ | ४|५८) प्र० । + 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'असमानलोपे० ' (४।१।६३) सन्वद्भावः अ० → इ० । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । ' णेरनिटि' (४।३।८३) णिच्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[ अलीलत्] लघु । लघुमाख्यातवान् । 'णिज्बहुलं ० ' ( ३।४।४२) णिच्प्र० । अनेन वृद्धिः औ । ' त्रन्त्यस्वरादेः’ (७।४।४३) औलोपः । अद्यतनी दित् । 'णि श्रि-दु-सु० ' ( ३।४।५८) डप्र० । 'द्विर्धातुः परोक्षा- डे० ' (४।१।१) द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्’ (४।१।४४) अनादिव्यञ्जनलोपः । 'असमानलोपे० ' (४।१।६३) सन्वद्भावः अ० इ० । 'लघोर्दीर्घोऽस्वरादेः ' (४।१।६४) दीर्घः । 'णेरनिटि' (४।३।८३) णिच्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अचकलत्] कलि । कलिमग्रहीत् । 'णिज्बहुलं ० ' ( ३।४।४२) णिच्प्र० । ' त्रन्त्यस्वरादेः ' ( ७।४।४३) अन्त्यस्वर "इ" लोपः । अद्यतनी दित् । 'णि श्रि-दु-सु०' ( ३।४।५८) प्र० । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्विः । ' व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ' क-ङश्च ञ्' (४।१।४६) क० च० । 'णेरनिटि ' ( ४ | ३ |८३) णिच्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अजहलत्] हलि । हलिमग्रहीत् । ' णिज्बहुलं० ' ( ३।४।४२) णिच्प्र० । ' त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वर "इ'लोपः । अद्यतनी दित् । 'णि श्रि-दु-सु-कमः कर्त्तरि ङः' (३|४|५८) डप्र० । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्’ (४।१।४४ ) अनादिव्यञ्जनलोपः । 'ग- होर्ज:' ( ४|१|४०) ह० ज० । 'णेरंनिटि' (४।३।८३) णिच्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ॥छ।
P. पटुमाख्यत् ।
Jain Education International
P. + 'आर्थोऽश एकस्वरः' (४।१।२) "प" द्विः ।
For Private & Personal Use Only
www.jainelibrary.org