SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १५४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । उपान्त्यवृद्धिः आ । 'अड् धातोरादि०' (४।४।२९) अट् । पाकः] पच । पचनं = पाकः । 'भावा-ऽकों:' (५।३।१८) घञ्प्र० -→ अ । अनेन उपान्त्यवृद्धिः आ । 'क्तेऽनिटश्च-जोः क-गौ धिति' (४१११११) च० → क० । [पपाच] पच् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन उपान्त्यवृद्धि: आ । [पाचयति पच् । पचन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । अनेन उपान्त्यवृद्धिः आ । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदेतोऽयाय्' (१।२।२३) अय् । [भोगः] 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज । भोजनं = भोगः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'क्तेऽनिटश्च-जोः०' (४।१।१११) ज० → ग० । [भोजयति भुज् । भुञ्जन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । लघोरुपान्त्यस्य' (४।३।४) गु० ओ । वर्त० तिव् । 'कर्तर्यनभ्यः शव' (३।४।७१) शव । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [भङ्गः] 'भओंप् आमर्दने' (१४८६) भञ्ज । भञ्जनं = भङ्गः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'क्तेऽनिटश्च-जोः०' (४।१।१११) ज० → ग० । [भञ्जकः] भञ् । भनक्तीति । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । [चकासयति] 'चकासृक् दीप्तौ' (१०९४) चकास् । चकासतं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । वर्त्त० तिव । 'कर्त्तर्यनभ्यः शव' (३।४।७१) शव । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । [पचति] पच् । वर्त० तिव् । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् ।।छ।। नामिनोऽकलि-हलेः ।।४३५१।। [नामिनः] नामिन् षष्ठी डस् । [अकलिहलेः] कलिश्च हलिश्च = कलिहलि, न कलिहलि = अकलिहलि, तस्य । अपीपटदित्यादिसिध्यर्थं सूत्रं सूत्रितम्, अन्यथा नामिन इति गुणे अयवादेशे च कृते 'ञ्णिति' (४।३।५०) इति वृद्धौ सर्वाण्यपि सिध्यन्ति, ननु 'नामिनो गुणः' (४।३१) इत्यत्र कलिहलिवर्जनं क्रियताम्, तद् वर्जनाच्च नाम्नोऽपि गणेऽपीपटदित्यादीन्यपि सेत्स्यन्ति, किमनेन ? सत्यं, कलि-हलिवर्जनान्नाम्नोऽपि स्यात्, ततश्च सख्येत्यादावपि गुणप्रसङ्गः । [अचायि] 'चिंग्ट् चयने' (१२९०) चि । अद्यतनी त । भाव-कर्मणोः (३।४।६८) जिच् → इ-तलोपश्च । अनेन वृद्धिः ऐ । 'एदैतोऽयाय' (१।२।२३) आय् । 'अड़ धातोरादि०' (४।४।२९) अट् । [अनायि] 'णींग प्रापणे' (८८४) णी | 'पाठे धात्वादेर्णो नः' (२।३।९७) नी । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) जिच् → इ-तलोपश्च । अनेन वृद्धिः ऐ । “एदैतोऽयाय' (१।२।२३) आय् । 'अड् धातोरादि०' (४।४।२९) अट् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy