________________
अथ चतुर्थाध्यायस्य तृतीयः पादः ॥
१५३
[अशाशसीत्] ‘शसू हिंसायाम् ' ( ५४९ ) शस् । भृशं पुनः पुनर्वा अशसीत् । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) यप्र० । ‘बहुलं लुप्’ (३।४।१४ ) यङ्लुप् । 'सन्-यडश्च' (४।१।३) द्विः । 'आ-गुणावन्यादेः' (४।१।४८) गु० आ । अद्यतनी दि → त् । ‘सिजद्यतन्याम् ' ( ३।४।५३) सिच् । ' सः सिजस्तेर्दि-स्यो:' ( ४।३।६५) ईत् । इट् । 'इट ईति' (४।३।७१ ) सिच्लोपः । 'समानानां०' (१।२1१ ) दीर्घः । 'अड् धातोरादि०' (४।४।२९ ) अट् ।
[अचङ्क्षणीत्] क्षण् । भृशं पुनः पुनर्वा अक्षणीत् । 'व्यञ्जनादेरेकस्वराद्०' (३।४।९) यप्र० । 'सन्-यडञ्च' (४।१।३) द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४ ) षलुक् । 'क-इश्च- ञ्' (४।१।४६) क० च० । 'मुरतोऽनुनासिकस्य' (४।१।५१ ) मोऽन्तः । ‘बहुलं लुप्’ ( ३।४।१४ ) यड्लुप् । अद्यतनी दित् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दिस्यो:' ( ४ | ३ |६५ ) ईत् । इट् । 'इट ईति' (४।३।७१ ) सिच्लोपः । 'समानानां ० ' (१।२।१) दीर्घः । ' अड् धातोरादि० ' (४।४।२९) अट् ।
[असंस्यमीत्] स्यम् । भृशं पुनः पुनर्वा अस्यमीत् । 'व्यञ्जनादेरेकस्वराद्० ' ( ३।४१९ ) य० । ' बहुलं लुप्’ ( ३।४।१४ ) यङ्लुप् । 'सन्-यङश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४|१|४४ ) यलुक् । 'मुरतोऽनुनासिकस्य' (४।१।५१) मोऽन्तः । अद्यतनी दित् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्यो:' ( ४ | ३ |६५ ) ईत् । इट् । ‘इट ईति’ (४।३।७१) सिच्लोपः । 'समानानां ० ' (१।२1१ ) दीर्घः । 'अड् धातोरादि० ' ( ४।४।२९) अट् ।
[अवाव्ययीत्] व्यय् । भृशं पुनः पुनर्वा अव्ययीत् । 'व्यञ्जनादेरेकस्वराद् ० ' ( ३।४१९ ) यप्र० । 'बहुलं लुप्’ (३।४।१४) यङ्लुप् । ‘सन्-यडश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४ ) यलुक् । 'आ-गुणावन्यादेः' (४।१।४८) आ । अद्यतनी दि → त् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दिस्यो:' ( ४ | ३ |६५ ) ईत् । इट् । 'इट ईति' (४।३।७१) सिच्लोपः । 'समानानां ० ' (१।२19 ) दीर्घः । 'अड् धातोरादि० ' ( ४।४।२९) अट् ।
एदितां तु यलुपिन प्रतिषेधः
[अजाहासीत्, अजाहसीत्] 'हसे हसने ' ( ५४५) हस् । भृशं पुनः पुनर्वा अहसीत् । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४१९) यप्र० । 'बहुलं लुप्' ( ३।४।१४ ) यड्लुप् । 'सन्- यश्च' ( ४1१1३) द्विः । 'ग- होर्ज : ' ( ४।१।४०) ह० ज० । 'आगुणावन्यादेः' (४।१।४८) आ । अद्यतनी दित् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । 'सः सिजस्तेर्दि - स्यो:' ( ४ | ३ | ६५ ) ईत् । इट् । ‘व्यञ्जनादेर्योपान्त्यस्याऽतः' (४।३।४७) वा वृद्धिः आ । 'इट ईति' (४।३।७१) सिच्लोपः । 'समानानां०' (१।२1१ ) दीर्घः । 'अड् धातोरादि० ' ( ४।४।२९) अट् ।
[ अधाक्षीत् ] पूर्ववत् । ( ४।३।४७) सूत्रवत् ।
[अमवीत्] मुर्वे (४७९) - 'मव बन्धने' (४८०) मव् । अद्यतनी दित् । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । ‘सः सिजस्तेर्दि-स्योः' (४।३।६५ ) ईत् । इट् । मतान्तरेण वृद्धिनिषेधः । 'इट ईति' (४।३।७१) सिच्लोपः । 'समानानां०' (१।२1१ ) दीर्घः । 'अड् धातोरादि०' (४।४।२९) अट् ।
श्वि-जाग्रोः 'सिचि परस्मै समानस्याऽडिति' (४।३।४४ ) इति वृद्धावन्येषां च 'व्यञ्जनादेर्वोपान्त्यस्याऽतः' (४।३।४७) इति विकल्पे प्राप्ते वचनम् ॥छ ||
ञ्णिति ||४|३|५०॥
[ ञ्णिति] ञ् च ण् च = णौ णावितावनुबन्धौ यस्याऽसौ ञ्णित्, तस्मिन् ।
[अपाचि] 'डुपचष् पाके' (८९२) पच् । अद्यतनी त । 'भाव - कर्मणोः ' ( ३ | ४१६८) ञिच्इ-तलोपश्च । अनेन
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org