________________
१५२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
Wwwwwwse
'समानानां०' (१९२१) दीर्घः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अवमीत्] 'टुवमू उगिरणे' (९६९) वम् । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच । 'सः सिजस्तेदिस्योः' (४।३।६५) ईत् । इट । अनेन वृद्धिनिषेधः । 'इट ईति' (४।३।७१) सिचलोपः । 'समानानां०' (११२१) दीर्घः । 'अड़ धातोरादि०' (४।४।२९) अट् ।।
[अस्यमीत्] 'स्यमू शब्दे' (३८७) स्यम् । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दिस्योः' (४।३।६५) ईत् । इट् । अनेन वृद्धिनिषेधः । 'इट ईति' (४।३।७१) सिचुलोपः । 'समानानां०' (१।२।१) दीर्घः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अव्ययीत्] 'व्ययी गतौ' (९१८) व्यय । अद्यतनी दि→त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दिस्योः' (४।३।६५) ईत् । इट । अनेन वृद्धिनिषेधः । 'इट ईति' (४।३७१) सिचुलोपः । 'समानानां०' (१।२।१) दीर्घः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अहयीत] 'हय क्लान्तौ च' (३९७) हय् । अद्यतनी दि→त् । 'सिजद्यतन्याम्' (३।४।५३) सिन् । 'सः सिजस्तेर्दिस्योः' (४।३।६५) ईत् । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट । अनेन वृद्धिनिषेधः । 'इट ईति' (४।३७१) सिच्लोपः । 'समानानां०' (१।२।१) दीर्घः । ‘अड् धातोरादि०' (४।४।२९) अट् ।
[अकगीत] 'कगेम क्रियासामान्यार्थे' (१९८९) कम् । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । इट् । अनेन वृद्धिनिषेधः । ‘इट ईति' (४।३।७१) सिच्लोपः । 'समानानां०' (१।२।१) पोर्घः । ‘अड् धातोरादि०' (४।४।२९) अट् ।
[अरगीत्] 'रगे शङ्कायाम्' (१०२३) रग् । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दिस्योः' (४।३।६५) ईत् । इट । अनेन वृद्धिनिषेधः । 'इट ईति' (४१३७१) सिचुलोपः । 'समानानां०' (१।२१) दीर्घः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अकखीत 'कखे हसने' (१०२१) कख । अद्यतनी दि→त् । 'सिजद्यतन्याम' (३।४।५३) सिच । 'सः सिजस्तेर्दिस्योः' (४।३।६५) ईत् । इट् । अनेन वृद्धिनिषेधः । ‘इट ईति' (४।३।७१) सिच्लोपः । 'समानानां०' (१।२।१) दीर्घः । 'अड़ धातोरादि०' (४।४।२९) अट् ।
[अशेश्वयीत श्चि । भृशं पुनः पुनर्वा अश्वत, अश्वयीत, अशिश्चियत् । 'व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ् वा' (३।४।९) यङ्प० । 'सन्-यडश्च' (४।१३) द्वि: । 'व्यञ्जनस्याऽनादेर्लुक' (४११४४) वलुक् । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'बहुलं लुप्' (३।४।१४) यङ्लुप्, ततो द्वित्वादिः । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३१६५) ईत् । इट् । 'इट ईति' (४।३१७१) सिच्लोपः । 'अडू धातोरादि०' (४।४।२९) अट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[अजर्जागरीत्] जागृ । भृशं पुनः पुनर्वा अजागरीत् । यड्प्र० । द्वि: । 'बहुलं लुप्' (३।४।१४) यड्लुप्, ततो द्वित्वादिः । 'रि-रौ च लुपि' (४१५६) "र" आगमः । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । ‘सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । इट् । ‘इट ईति' (४।३७१) सिच्लोपः । गु० अर् । 'अड् धातोरादि०' (४।४।२९) अट् ।
. .
卐 पाणिनीयमते "क्रियासामान्यार्थे', आचार्यमते 'मिथःसंप्रहारे' ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org