SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य तृतीयः पादः ॥ १५१ [अबभ्रीत्] अभ्र (४०७) - 'बभ्र गतौ' (४०८) बभू । अद्यतनी दि →त् । 'सिजद्यतन्याम्' (३।४।५३) सिन् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । इट् । ‘इट ईति' (४।३७१) सिच्लोपः । ‘समानानां०' (१।२।१) दीर्घः । ‘अडू धातोरादि०' (४।४।२९) अट् । [न्यमीलीत्] 'मील निमेषणे' (४१५) मील, निपूर्व० । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । इट् । ‘इट ईति' (४।३।७१) सिच्लोपः । ‘समानानां०' (१।२।१) दीर्घः । ‘अड् धातोरादि०' (४।४।२९) अट् । [न्यखोरीत्] 'खुरत् छेदने च' (१३९३) खुर्, निपूर्व० । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । इट । 'इट ईति' (४।३।७१) सिचुलोपः । 'समानानां०' (१।२।१) दीर्घः । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'अड् धातोरादि०' (४।४।२९) अट् ।।छ।। न श्वि-जागृ-शस-क्षण-हम्येदितः ॥४।३।४९।। [न न प्रथमा सि । [श्विजागृशसक्षणहम्येदितः] एत् इदनुबन्धो येषां ते = एदितः । श्विश्च : जागा च शसश्च क्षणश्च ह च म् च य च+ एदिच्च = श्विजागृशसक्षणहम्येदित्, तस्य । [अश्वयीत्] ‘ट्वोश्वि गति-वृद्धयोः' (९९७) श्चि । अद्यतनी दि → त् । ‘सिजद्यतन्याम्' (३।४५३) सिच् । ‘सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । इट् । 'इट ईति' (४।३७१) सिच्लोपः । अनेन वृद्धिनिषेधः । 'समानानां तेन०' (१।२।१) दीर्घः । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'अड् धातोरादि०' (४।४।२९) अट् । [अजागरीत्] 'जागृक निद्राक्षये' (१०९३) जागृ । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेदि-स्योः' (४।३।६५) ईत् । इट् । ‘इट ईति' (४।३७१) सिच्लोपः । समानानां०' (१।२।१) दीर्घः । गु० अर् । 'अड़ धातोरादि०' (४।४।२९) अट् । [अशसीत्] 'शसू हिंसायाम्' (५४९) शस् । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । अनेन वृद्धिनिषेधः । ‘इट ईति' (४।३।७१) सिचूलोपः । 'समानानां०' (११२।१) दीर्घः । 'अड् धातोरादि०' (४।४।२९) अट् । [अक्षणीत्] ‘क्षणूग् हिंसायाम्' (१५०१) क्षण् । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । ‘सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । इट् । अनेन वृद्धिनिषेधः । ‘इट ईति' (४१३७१) सिच्लोपः । ‘समानानां०' (१।२।१) दीर्घः । ‘अड् धातोरादि०' (४।४।२९) अट् । [अग्रहीत्] ‘ग्रहीश् उपादाने' (१५१७) ग्रह । अद्यतनी दि → त् । ‘सिजद्यतन्याम्' (३।४।५३) सिच् । ‘सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । इट् । 'गृह्णोऽपरोक्षायां०' (४।४।३४) दीर्घः । ‘इट ईति' (४।३७१) सिच्लोपः । अनेन वृद्धिनिषेधः । 'समानानां०' (१।२।१) दीर्घः । ‘अड् धातोरादि०' (४।४।२९) अट् ।। [अचहीत् 'चह कल्कने' (५५३) चह । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दिस्योः' (४।३।६५) ईत् । ‘स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । अनेन वृद्धिनिषेधः । ‘इट ईति' (४१३७१) सिच्लोपः । P. 卐 जागृश्च । P. + एदितश्च । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy