________________
१५०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । अदेवीत्] 'दिवूच् क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिषु' (११४४) दिव् । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । इट ईति' (४।३।७१) सिच्लोपः । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अधाक्षीत्] ‘दहं भस्मीकरणे' (५५२) दह् । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३१६५) ईत् । 'हो धुट-पदान्ते' (२०१1८२) ह० → ढ० । 'ग-ड-द-बादेश्चतुर्थान्तस्यैकस्वरस्याऽऽदेश्चतुर्थः स्थ्योश्च प्रत्यये' (२।१७७) द० → ध० । 'व्यञ्जनानामनिटि' (४।३।४५) वृद्धिः आ । ‘ष-ढोः कस्सि' (२।१।६२) ढ० → क० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । क-षसंयोगे क्ष० । 'अड् धातोरादि०' (४।४।२९) अट ।।छ।।
वद-व्रज-लः ।।४।३।४८।।
[वदव्रजलः] वदश्च वजश्च ल च र् च = वदव्रजल्र्, तस्य ।
[अवादीत्] 'वद व्यक्तायां वाचि' (९९८) वद् । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । इट् । अनेन वृद्धिः आ । 'इट ईति' (४१३७१) सिचुलोपः । 'समानानां तेन०' (१४२११) दीर्घः । ‘अड् धातोरादि०' (४।४।२९) अट् ।
[अव्राजीत्] धृज (१३०) - धृजु (१३१) - ध्वज (१३२) - ध्वजु (१३३) - धज (१३४) - धजु (१३५) वज (१३६) - 'व्रज गतौ' (१३७) व्रज् । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४१३।६५) ईत् । इट । अनेन वृद्धिः आ । ‘इट ईति' (४१३७१) सिचलोपः । 'समानानां०' (१।२।१) दीर्घः । 'अड धातोरादि०' (४।४।२९) अट् ।
[अज्चालीत] 'ज्वल दीप्तौ' (९६०) ज्वल । अद्यतनी दि →त् । 'सिजद्यतन्याम' (३।४।५३) सिच् । 'सः सिजस्तेर्दिस्योः' (४।३।६५) ईत् । इट् । अनेन वृद्धिः आ । 'इट ईति' (४।३७१) सिचुलोपः । 'समानानां०' (११२।१) दीर्घः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अचालीत्] 'चल कम्पने' (९७२/१०५५) चल् । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । इट् । अनेन वृद्धिः आ । 'इट ईति' (४३७१) सिचुलोपः । 'समानानां तेन०' (१।२।१) दीर्घः । 'अड़ धातोरादि०' (४।४।२९) अट् ।
[अक्षारीत्] 'क्षर सञ्चलने' (९७१) क्षर् । अद्यतनी दि→ त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दिस्योः' (४।३।६५) ईत् । इट् । अनेन वृद्धिः आ । ‘इट ईति' (४।३।७१) सिचलोपः । 'समानानां०' (१।२१) दीर्घः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अत्सारीत्] 'त्सर छद्मगतौ' (४०५) त्सर् । अद्यतनी दि →त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । इट । अनेन वृद्धिः आ । 'इट ईति' (४३७१) सिचलोपः । 'समानानां०' (१४२११) दीर्घः । 'अड् धातोरादि०' (४।४।२९) अट् ।
. [अश्वल्लीत्] श्वल (४५०)- 'श्वल्ल आशुगतौ' (४५१) श्वल्ल् । अद्यतनी दि→त् । 'सिजद्यतन्याम्' (३।४।५३) सिच । 'सः सिजस्तेर्दि-स्योः' (४३१६५) ईत् । इट । 'इट ईति' (४।३७१) सिचलोपः । 'समानानां०' (१।२।१) दीर्घः । 'अड् धातोरादि०' (४।४।२९) अट् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org