________________
अथ चतुर्थाध्यायस्य तृतीयः पादः ॥
[अताप्सीत्] 'तपं सन्तापे' (३३३) तप् । अद्यतनी दि त् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । 'सः सिजस्तेर्दिस्यो:' ( ४ | ३ |६५ ) ईत् । अनेन वृद्धिः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अराङ्क्षीत्] 'रञ्जीं रागे' (८९६) र । अद्यतनी दि → त् । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दिस्योः' (४।३।६५) ईत् । अनेन वृद्धिः । 'च-जः क- गम्' (२।१।८६) ज० ग० । 'अघोषे० ' (१।३।५०) ग० क० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । क-षसंयोगे क्ष० । 'अड् धातोरादि० (४।४।२९) अट् ।
१४७
[असाङ्क्षीत्] ‘षञ्जं सङ्गे' (१७३) पञ् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८ ) स । अद्यतनी दि → त् । ‘सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्यो:' ( ४१३।६५ ) ईत् । अनेन वृद्धिः । 'च-जः क- गम्' (२।१।८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः ' (१।३।५०) ग० क० । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् । क-षसंयोगे क्ष० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अभाङ्क्षीत्] ‘भञ्जप् आमर्दने' (१४८६) भञ्ज् । अद्यतनी दित् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५ ) ईत् । अनेन वृद्धिः । 'च-जः क- गम्' (२।१।८६) ज०ग० । 'अघोषे० ' (१।३।५०) ग० → क० । ‘नाम्यन्तस्था०' (२।३।१५) षत्वम् । क-षसंयोगे क्ष० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अताक्षीत् ] 'तक्षौ तनूकरणे' ( ५७१ ) तक्ष । अद्यतनी दित् । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५ ) ईत् । अनेन वृद्धि: । 'धूगौदितः' (४।४।३८) इति वेट् । 'संयोगस्याऽऽदौ स्कोर्लुक्' (२।१।८८) कलुक् । 'ष ढोः कस्सि' (२।१।६२ ) ष० क० । सिचः षत्वेऽडागमे च रूपं सिद्धम् ।
[अत्वाक्षीत् ] तक्षौ (५७१) - ' त्वक्षी तनूकरणे' (५७२) त्वक्ष् । अद्यतनी दि → त् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । ‘सः सिजस्तेर्दिस्योः ' ( ४ | ३ |६५ ) ईत् । अनेन वृद्धिः । 'धूगौदितः' (४।४।३८) इति वेट् । 'संयोगस्याऽऽदौ स्कोर्लुक्' (२।१।८८) कलुक् । ष-ढोः कस्सि' (२।१।६२ ) प० क० । अनेन सिचः षत्वेऽडागमे च रूपं सिद्धम् ।
[उदवोढाम्] उत् 'वहीं प्रापणे' (९९६) वह् । अद्यतनी ताम् । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । अनेन वृद्धिः आ । ‘धुड्-ह्रस्वाल्लुगनिटस्त-थोः' (४।३।७०) सिच्लोपः । 'हो धुट्-पदान्ते' (२।१।८२) ह०ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१।७९) त० ध० । 'तवर्गस्य श्ववर्ग ष्टवर्गाभ्यां ० ' (१।३।६०) ध० ढ० । 'सहि वहेरोच्चाऽवर्णस्य' (१।३।४३ ) ढलोपः-पूर्वस्यावर्णस्य ओ । 'अड् धातोरादि०' (४।४।२९) अट् इति कृते व्यञ्जनान्तत्वाभावात् कथं पुनर्वृद्धिः प्राप्नोति ? सत्यम्'हो धुट्-पदान्ते' (२।१।८२ ) इत्यनेन असदधिकारविहितेन ढकाराश्रितं कार्यं सर्वमप्यसत्त्वं कृतम्, असत्त्वे सति व्यञ्जनान्तत्वात् प्राप्तवृद्धिः समानस्येत्येवेति व्यावृत्त्या निषिध्यते । पूर्वं वृद्धौ 'एकदेशविकृतमनन्यवत्' (न्या० सं० वक्षस्कार ( १ ) / सूत्र ( ७ ) ) इति न्यायात् वहेरोत्वम् ततो भूतपूर्वगत्या ढस्य परेऽसत्त्वाद्वा व्यञ्जनान्तत्वे पुनरप्योकारस्य वृद्धिः प्राप्नोति ।
[अतक्षीत्] तक्ष् । अद्यतनी दित् । सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः ' ( ४ | ३ |६५ ) ईत् । ‘धूगौदितः’ (४।४।३८) वेट् । 'इट ईति' (४३३।७१) सिच्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अत्वक्षीत् ] त्वक्ष् । अद्यतनी दित् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः ' ( ४ | ३ |६५ ) ईत् । ‘धूगौदितः' (४।४।३८) वेट् । 'इट ईति' ( ४ | ३ |७१) सिचुलोपः । ' अड् धातोरादि०' (४।४।२९) अट् ।
[अदेवीत्] 'दिवूच् क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिषु' ( ११४४ ) दिव् । अद्यतनी दित् । 'सिजद्यतन्याम्’ (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्यो:' ( ४।३।६५ ) ईत् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४१४१३२) इट् । 'इट ईति' (४।३१७१) सिच्लोपः । ‘लघोरुपान्त्यस्य' ( ४।३।४) गु० ए । 'अड् धातोरादि० ' ( ४।४।२९) अट् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org