________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[अकोषीत् ] 'कुषश् निष्कर्षे' (१५६५) कुष् । अद्यतनी दित् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । सः सिजस्तेर्दि-स्यो:' (४।३।६५ ) ईत् । स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । 'इट ईति' ( ४ | ३ |७१) सिच्लोपः । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'अड् धातोरादि०' (४।४।२९) अट् ।
१४८
[अनर्तीत्] 'नृतैच् नर्त्तने' (११५२) नृत् । अद्यतनी दि→ त् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दिस्यो:' (४।३।६५) ईत् । 'स्ताद्यशितो० ' ( ४।४।३२) इट् । 'इट ईति' (४।३।७१ ) सिच्लोपः । ' लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'अड् धातोरादि० ' ( ४।४।२९) अट् ॥छ ।
वोर्णुः सेटि || ४ | ३ | ४६ ॥
[व] वा प्रथमा सि ।
[ऊर्णुगः] ऊर्णुग् षष्ठी स् ।
[सेटि] सह इटा वर्त्तत इति सेट् तस्मिन् । 'सहस्य सोऽन्यार्थे ' ( ३।२।१४३ ) सहस्य सभावः ।
[प्रौर्णावीत्, प्रौणुवीत्, प्रौर्णवीत्] प्र 'ऊर्णुग्क् आच्छादने' (११२३) ऊर्णु । अद्यतनी दित् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । ‘सः सिजस्तेर्दिस्यो:' ( ४ | ३ |६५ ) ईत् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । अनेन वा वृद्धिः । 'इट ईति' (४।३।७१) सिच्लोपः । दीर्घः । ' ओदौतोऽवाव्' (१।२।२४) आव् । पक्षे 'वोर्णी : ' ( ४।३।१९) इत्यनेन ङित्त्वम् । ‘संयोगात्' (२।१।५२) उव् । यत्र ङित्त्वं न तत्र गुणः, तृतीये गुणः, त्रयाणामपि 'स्वरादेस्तासु' ( ४ | ४ | ३१) वृद्धिः ।
[प्रौर्णविष्ट] प्र-ऊर्णु । अद्यतनी त । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'स्वरादेस्तासु' (४।४।३१) वृद्धिः औ । 'नाम्यन्तस्था०' (२|३|१५ ) षत्वम् । 'तवर्गस्य श्चवर्ग० ' (१|३|६०) त०ट० ।
[प्रौर्णीनावीत्] प्र-ऊर्णु । भृशं पुनः पुनर्वा प्रोर्णीति । 'अट्यर्त्ति सूत्रि - मूत्रि-सूच्यशूर्णो:' ( ३।४।१० ) यप्र० । 'लोकात्’ (१1१1३) 'ऊर्” पाठउ विश्लेषियइ । 'निमित्ताभावे० ' (न्या० सं० वक्षस्कार १ / सूत्र २९ ) णु० ० | 'स्वराऽऽदेर्द्वितीयः’ (४।१।४) “नु’द्विः । ‘आ-गुणावन्यादेः' (४।१।४८) गु० ओ । 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । अद्यतनी दि→ त् । ‘सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्यो:' ( ४ | ३ |६५ ) ईत् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'सिचि परस्मै ० ' ( ४ | ३ |४४) वृद्धिः औ । 'इट ईति' ( ४ | ३ | ७१) सिच्लोपः । 'समानानां ० ' (१।२1१) दीर्घः । ' ओदौतोऽवाव्’ (१।२।२४) आव् ।
'वोर्णोः' (४।३।१९) इत्यत्र हि अनुबन्धाभावाद्यड्लुबन्तस्यापि ग्रहणम्, एवं च प्रकृतेस्त्रैरूप्यं यड्लुबन्तस्य च द्वैरूप्यं सिद्धं भवति ॥ छ ॥
व्यञ्जनादेवपान्त्यस्याऽतः || ४ | ३ |४७ ||
[व्यञ्जनादेः] व्यञ्जनमादिर्यस्याऽसौ व्यञ्जनादिस्तस्य ।
[वा ] वा प्रथमा सि ।
[उपान्त्यस्य ] उपगतोऽन्त्यमुपान्त्यम्, अन्त (न्त्य ) स्य समीपमुपान्त्यम्, तस्य ।
[ अतः ] अत् षष्ठी डस् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org