________________
अथ चतुर्थाध्यायस्य तृतीयः पादः ॥
१४५
[अलावीत्] 'लूग्श् छेदने' (१५१९) लू । अद्यतनी दि → त् । ‘सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि
६५) ईत् । अनेन वृद्धिः । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'इट ईति' (४।३७१) सिचुलोपः । 'समानानां०' (१।२।१) दीर्घः । ‘ओदौतोऽवाव्' (१।२।२४) आव् । ‘अड् धातोरादि०' (४।४।२९) अट् ।
[अकार्षीत्] 'डुकंग करणे' (८८८) कृ । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दिस्योः' (४।३।६५) ईत् । अनेन वृद्धिः आर् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अतारीत्] 'तू प्लवन-तरणयोः' (२७) तु । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दिस्योः' (४।३।६५) ईत् । अनेन वृद्धिः आर् । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । ‘इट ईति' (४।३७१) सिच्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अचेचायीत्] चि | भृशं पुनः पुनर्वा अचैषीत् । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यय० । 'सन्-यडश्च' (४|११३) द्वि: । 'आ-गुणावन्यादेः' (४१।४८) गु० ए । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । अनेन वृद्धिः ऐ । इट् । ‘इट ईति' (४।३।७१) सिच्लोपः । ‘एदैतोऽयाय्' (१।२।२३) आय् । ‘अड् धातोरादि०' (४।४।२९) अट् ।
[अनेनायीत्] नी । भृशं पुनः पुनर्वा अनैषीत् । 'व्यञ्जनादेरेकस्वराद' (३।४।९) यड्य० । 'सन्-यडश्च' (४/१/३) द्वि: । 'हूस्वः' (४।१।३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'बहुलं लुप्' (३।४।१४) यड्लुप् । अद्यतनी दि →त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । अनेन वृद्धिः ऐ । इट् । 'इट ईति' (४।३।७१) सिच्लोपः । ‘एदैतोऽयाय्' (१।२।२३) आय् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अच्योष्ट] 'च्युङ् गतौ' (५९४) च्यु । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ, नित्यत्वादन्तरङ्गत्वाच्च प्रागेव गुणः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'तवर्गस्य श्ववर्ग०' (१।३।६०) त० → ८० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अप्लोष्ट] च्युङ् (५९४) - ज्युङ् (५९५) - जुंङ् (५९६) - पुंङ् (५९७) - ‘प्लुङ् गतौ' (५९८) प्लु । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अगवीत्] गो । गौरिवाचारीत् । 'कर्तुः क्विप्०' (३।४।२५) क्विप्प० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् → ई । इट् । ‘इट ईति' (४१३७१) सिचुलोपः । 'समानानां तेन दीर्घः' (११२११) दीर्घः । 'ओदौतोऽवाव' (११२।२४) अव । 'अड़ धातोरादि०' (४।४।२९) अट् ।
[अचिकीर्षीत्] 'डुकंग करणे' (८८८) कृ । कर्तुमिच्छति । 'तुम दिच्छायां०' (३।४।२१) सन्प्र० । 'स्वर-हन-गमोः सनि धुटि'(४।१।१०४) दीर्घः । 'ऋतां विडतीर्' (४।४।११६) इर् । 'सन्-यडश्च' (४।१।३) द्विः । ‘क-डश्च-ञ्' (४।१।४६) क० → च० । 'भ्वादे मिनो०' (२११६३) दीर्घः । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । 'अतः' (४।३।८२) अलोपः । इट् । ‘इट ईति' (४।३।७१) सिच्लोपः । 'समानानां०' (१।२।१) दीर्घः । ‘अड् धातोरादि०' (४।४।२९) अट् ।
[न्यनुवीत] ‘णूत् स्तवने' (१४२९) णू । 'पाठे धात्वादेर्णो नः' (२।३।९७) नू, निपूर्व० । अद्यतनी दि →त् ।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org