SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [परिममार्जतुः, परिममृजतुः] मृज्, परिपूर्व० । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा-डे० (४।१।१) "मृद्विः । 'ऋतोऽत्’ (४।११३८ ) ऋ० अ० । अनेन वा वृद्धिः आर् । १४४ [परिमार्जन्, परिमृजन्] मृज्, परिपूर्व० । परिमाष्टति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२० ) शतृप्र० अत् । अनेन वा वृद्धिः आर् । अन वृद्धिः विकल्पेन विहितत्वात् गुणः, गुणे कृते च पूर्वेण नित्यं वृद्धिर्न तु अनेन, विकल्पे ऋकाराभावात्, ततो ममार्ज इत्येव, न तु ममर्ज, एवं मार्जयतीत्यादिषु । [ममार्ज] मृज् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) "मृज् द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'मृजोऽस्य वृद्धिः ' ( ४।३।४२ ) वृद्धिः आ । [मार्जयति] मृज् । मार्जन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । ‘मृजोऽस्य वृद्धिः' ( ४ | ३ | ४२ ) वृद्धिः आ । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [ मृष्टः ] मृज् । वर्त्त० तस् । 'यज- सृज - मृज-राज-भ्राज-भ्रस्ज- ब्रस्व-परिव्राजः शः षः ' (२।१।८७ ) ज० ष० । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां योगे च टवर्गी' (१।३।६०) त०ट० । [मृष्ठः] मृज् । वर्त्त० थस् । 'यज-सृज-मृज-राज० ' (२।१।८७) ज० ष० । 'तवर्गस्य श्चवर्ग० ' (१।३।६०) थ० ठ० । [ मृज्यः ] मृज् । वर्त्त० वस् । [ मृज्म: ] मृज् । वर्त्त० मस् ||छ || [सिचि ] सिच् सप्तमी ङि । [परस्मै] परार्थं पदं परस्मैपदं, तस्मिन् = परस्मै । सूत्रत्वात् डिलोपः । ' ते लुग्वा ' ( ३।२।१०८) पदलोपः । = सिचि परस्मै समानस्याऽडिति || ४ | ३ | ४४ ॥ [समानस्य ] समानं तुल्यं मानमस्याऽसौ समानस्तस्य । [अङिति ] ङ् इदनुबन्धो यस्याऽसौ डित्, न डित् = अङित्, तस्मिन् । [अचैषीत्] 'चिंग्ट् चयने' (१२९०) चि । अद्यतनी दि त् । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दिस्योः' (४।३।६५) ईत् । अनेन वृद्धिः । 'अड् धातोरादि०' (४।४।२९) अट् । = Jain Education International [अनैषीत् ] 'णीं प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी । अद्यतनी दित् । 'सिजद्यतन्याम्’ (३।४।५३) सिच् । 'सः सिजस्तेर्दि- स्योः ' ( ४ | ३ | ६५ ) ईत् । अनेन वृद्धिः । ' अड् धातोरादि० ' ( ४।४।२९) अट् । [अयावीत्] 'युक् मिश्रणे' (१०८०) यु । अद्यतनी दित् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । सः सिजस्तेर्दिस्योः' (४।३।६५) ईत् । अनेन वृद्धिः । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।२९) इट् । 'इट ईति' (४।३।७१ ) सिच्लोपः । ‘समानानां०’ (१।२।१) दीर्घः । ' ओदौतोऽवाव्' (१।२।२४) आव् । 'अड् धातोरादि०' (४।४।२९) अट् । For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy