________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका । [निनीषति] 'णींग् प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी । नेतुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । 'सन्- यश्च' (४।१।३) “नी 'द्विः । 'ह्रस्वः' (४।१।३९) ह्रस्वः ।
१३६
[तुष्टृषति] 'ष्टुंग्क् स्तुतौ' (११२४) ष्टु । ' षः सोऽष्ट्यै- ष्ठिव-ष्वष्कः' (२।३।९८) स्तु । ‘निमित्ताभावे नैमित्तिकस्याप्यभावः' (न्या० सं० वक्ष० ( १ ) / सूत्र (२९)) स्तु । स्तोतुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । 'स्वरहन०' (४।१।१०४) दीर्घः । 'सन्- यङश्च' (४।१।३) द्विः । 'अघोषे शिट : ' ( ४।१।४५) सलुक् । 'ह्रस्वः' (४।१।३९) ह्रस्वः । 'णि- स्तोरेवाऽस्वद- स्विद - सहः षणि' (२।३।३७) मूलधातोः षत्वम् । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् ।
[लुलूषति] 'लूग्श् छेदने' (१५१९) लू । लवितुमिच्छति । 'तुमर्हादिच्छायां ० ' ( ३।४।२१) सन्प्र० । 'सन्-यङश्च’ (४|१|३) द्विः । 'ह्रस्वः' ( ४|१|३९) ह्रस्वः । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् ।
[चिकीर्षति] ‘डुकृंग् करणे' (८८८) कृ । कर्तुमिच्छति । 'तुमर्हादिच्छायां ० ' ( ३।४।२१) सन्प्र० । ' स्वर-हन-गमोः ०' ( ४।१।१०४) दीर्घः । कित्फलं- 'ऋतां क्डित्तीर्' (४|४|११६) इर् किर् । 'सन्-यश्च' (४।११३) द्विः । 'क-डश्च-ञ्’ च० । 'भ्वादेर्नामिनो दीर्घो वर्व्यञ्जने ' (२|१|६३) दीर्घः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
(४।१।४६ ) क०
[तितीर्षति ] 'तृ प्लवन-तरणयोः' (२७) तृ । तरीतुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । कित्फलं 'ऋत क्डितीर्' (४।४।११६) इर् तिर् । 'सन्- यङश्च' (४।१।३) द्विः । ' भ्वादेर्नामिनो० ' (२।१।६३) दीर्घः ।
एषु सर्वत्र कित्फलं गुणो न भवति ।
[पिपासति ] 'पां पाने' (२) पा । पातुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । 'सन्-यडञ्च' (४।१।३) द्विः । ‘ह्रस्वः' (४।१।३९) ह्रस्वः । 'सन्यस्य' (४।११५९) इ । 'ईर्व्यञ्जनेऽयपि' (४।३।९७ ) ई न भवति, अकिद्वत्त्वात् ।
[तिष्ठासति] 'ष्ठां गतिनिवृत्तौ ' ( ५ ) ष्ठा । ' षः सौऽष्ट्यै- ष्ठिव ष्वष्कः ' (२।३।९८) स्था । ' निमित्ताभावे० ' (न्या० सं० वक्षस्कार(१)/सूत्र(२९) स्था । स्थातुमिच्छति । 'तुमर्हादिच्छायां ० ' ( ३।४।२१) सन्प्र० । 'सन् - यडञ्च' (४।१।३) द्विः । 'अघोषे शिटः' (४।१।४५) सलुक् । 'ह्रस्वः' (४।१।३९ ) ह्रस्वः । ' द्वितीय - तुर्ययोः पूर्वी' (४।१।४२) थ० त० । 'सन्यस्य'
(४।१।५९) इ ।
[शिशयिषते] 'शीक् स्वप्ने' (११०५ ) शी | शेतु ( शयितुमिच्छति । 'तुमर्हादिच्छायां ० ' ( ३।४।२१) सन्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' ( ४१४१३२ ) इट् । 'सन्-यडश्च' (४।१।३) "शी 'द्विः । ' ह्रस्वः' (४|१ | ३९ ) ह्रस्वः । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'नाम्यन्तस्था ० ' (२|३|१५ ) षत्वम् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् ।
[चेता] ‘चिंग्ट् चयने' (१२९० ) चि । श्वस्तनी ता । 'नामिनो गुणोऽक्ङिति' ( ४ | ३ | १) गु० ए ।
[नेता] 'र्णीग् प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी । श्वस्तनी ता । 'नामिनो गुणोऽक्डिति' ( ४ | ३ |१) गु० ए ।।छ।
इदमुदाहरणं बृहद्वृत्तौ नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org