SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका । नेति निवृत्तमिति-मृडादीनामुपादानात्, तेभ्यो हि 'क्त्वा ' ( ४।३।२९) इत्यनेन प्रतिषेधः सिद्ध इति तदुपादानमनर्थकं स्यात् । १३४ [क्षुधित्वा] 'क्षुधंच् बुभुक्षायाम्' (११८२) क्षुध् । क्षोधनं पूर्वम् । 'प्राक्काले' (५/४१४७) क्त्वाप्र० त्वा । 'क्षुधवसस्तेषाम्' (४।४।४३) इट् । [क्लिशित्वा ] 'क्लिशिच् उपतापे ' (१२७६) क्लिश् । 'क्लिशौ‍ विबाधने' (१५५७) क्लिश् । क्लेशनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० त्वा । 'पूङ् - क्लिशिभ्यो नवा' ( ४/४/४५) इट् । [कुषित्वा ] 'कुषश् निष्कर्षे' (१५६५) कुष् । कोषणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० त्वा । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । [गुधित्वा] 'गुधच् परिवेष्टने ' (११५५) गुध् । गोधनं पूर्वम् । 'प्राक्काले ' ( ५/४/४७) क्त्वाप्र० त्वा । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । [मृडित्वा ] 'मृडश् सुखने' (१५४५) मृड् । मर्डनं पूर्वम् । 'प्राक्काले' (५/४१४७) क्त्वाप्र० त्वा । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । [मृदित्वा ] 'मृदश् क्षोदे' (१५५० ) मृद् । मर्दनं पूर्वम् । 'प्राक्काले ' ( ५।४।४७) क्त्वाप्र० त्वा । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । [उदित्वा] 'वद व्यक्तायां वाचि' (९९८) वद् । वदनं पूर्वम् । 'प्राक्काले ' ( ५|४|४७) क्त्वाप्र० त्वा । 'यजादिवचेः किति' (४।१।७९) य्वृत् व० उ० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । त्वा । 'क्षुध-वसस्तेपाम्' [उषित्वा ] 'वसं निवासे' (९९९) वस् । वसनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० (४।४।४३ ) इट् । 'यजादि-वचेः किति' (४।१।७९) वृत् व० उ० । 'घस्-वसः' (२।३।३६) षत्वम् । 'क्त्वा' (४।३।२९) इति प्रतिषेधे प्राप्ते, 'वौ व्यञ्जनाऽऽदे: सन् चाऽय् वः' (४।३।२५ ) इति विकल्पे च प्राप्ते वचनम् ||छ || रुद- विद-मुष-ग्रह- स्वप- प्रच्छः सन् च ॥|४|३|३२|| [ रुदविः मुषग्रहस्वपप्रच्छः ] रुदश्च विदश्च मुषश्च ग्रहश्च स्वपश्च प्रछ् च = रुदविदमुषग्रहस्वपप्रछ्, तस्मात् । [ सन्] सन् प्रथमा सि । [च] च प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । [ रुदित्वा ] दृक् अश्रुविमोचने' (१०८७) रुद् । रोदनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० त्वा । 'स्नाद्यशितोऽत्रोणादेरिट्' (४१४१३२) इट् । [रुरुदिषति] रुद् । रोदितुमिच्छति । तुमर्हादिच्छायां उन्नतत्सनः ' ( ३।४।२१) सन्प्र० । ' सन्-यडश्च' ( ४ 1१1३) द्विः । 'स्ताद्यशितोऽत्रोणादेरिट्' ( ४१४१३२ ) इट् । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्त्वम् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः राव्' (३।४।७१ ) शव् 1 [विदित्वा ] 'विदक् ज्ञाने' (१०९९) विदू । वेदनं पूर्वम् । 'प्राक्काले' (५१४१४७) क्त्वाप्र० - त्वा । इट् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy