________________
१२८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[द्युतित्वा, द्योतित्वा] 'धुति दीप्तौ' (९३७) धुत् । द्योतनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । इट् । यत्र कित् तत्र न गुण:, एवं सर्वत्र ज्ञेयः, पक्षे 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[दिद्युतिषते, दिद्योतिषते] द्युत् । द्योतितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) "धु'"द्वि: । 'व्यञ्जनस्याऽनादेर्लुक' (४११४४) यलुक । 'धुतेरिः' (४।१४१) उ० → इ० । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[मुदित्वा, मोदित्वा] 'मुदि हर्षे' (७२६) मुद् । मोदनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । इट् । पक्षे ‘लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[मुमुदिषते, मुमोदिषते] मुद् । मोदितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) द्विः । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'नाम्यन्तस्था०' (२।३।१५) षत्वम्
[लिखित्वा, लेखित्वा] ‘लिखत् अक्षरविन्यासे' (१३३६) लिख । लेखनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० ---> त्वा । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । पक्षे 'लघोरुपान्त्यस्य' (४।३।४) गु० ए ।
[लिलिखिषति, लिलेखिषति] लिख् । लेखितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प० । 'सन्-यडश्च' (४।१३) द्विः । ‘स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नाम्यन्तस्था०' (२।३.१५) षत्वम् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए ।
[वितित्वा, श्वेतित्वा] 'श्चिताङ् वर्ण' (९४३) श्चित् । श्वेतनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । इट् । पक्षे 'लघोरुपान्त्यस्य' (४।३।४) गु० ए ।
[शिधितिषते, शिवेतिषते] श्वेतितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) वलुक् । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
[वर्तित्वा] ‘वृतूङ् वर्त्तने' (९५५) वृत् । वर्तनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । ‘लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'ऊदितो वा' (४।४।४२) इट् ।
[विवर्तिषते वृत् । वर्तितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सनप्र० । सन्-यडश्च' (४।१३) द्विः । 'ऋतोऽत्' (४।११३८) ऋ० → अ० । 'सन्यस्य' (४/११५९) इ । इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् ! 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
[ओषित्वा] 'उषू दाहे' (५२९) उप् । उ(ओ)षणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'ऊदितो वा' (४।४।४२) इट् । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[ओषिषिषति] उष् । ओषितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । इट् । 'लोकात्' (१1१1३) "उ" पाठउ विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' (४१११४) "षि"द्विः । प्रथमं इट अनन्तरं 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
[भुक्त्वा] 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भोजनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'च-जः क-गम्' (२।१९८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) ग० → क० ।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org