SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य तृतीयः पादः ॥ १२७ - → त्वा । इट् । [ग्रथित्वा, ग्रन्थित्वा] 'ग्रन्थश् संदर्भे' (१५४८) ग्रन्थ् । ग्रन्थनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । इट् । [गुफित्वा, गुम्फित्वा] गुफ (१३८३) - 'गुम्फत् ग्रन्थने' (१३८४) गुम्फ् । गुम्फनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । इट् । [ऋफित्वा, ऋम्फित्वा] ऋफ (१३७९) . 'ऋम्फत् हिंसायाम्' (१३८०) ऋम्फ् । ऋम्फणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । ‘स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) सर्वत्र इट् । यत्र किद्वत्तत्र 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक्. शेषेषु तु 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) अन्त्यव्यञ्जनम् । कोथित्वा] 'कुथच् पूतिभावे' (११५३) कुथ् । कोथनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । [पोथित्वा] 'पुथच् हिंसायाम्' (११५४) पुथ् । पोथनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । [रेफित्वा] 'रिफत् कथन-युद्ध-हिंसा-दानेषु' (१३७६) रिफ् । रेफणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । + [श्रथितः] श्रन्थ् । श्रथ्नाति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । इट् । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । + [श्रथितवान] श्रन्थ् । श्रथ्यते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तवतुप्र० → तवत् । इट् । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । [वक्त्वा] 'वशू गतौ' (१०६) वश् । वञ्चनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । 'ऊदितो वा' (४।४।४२) वेट् । 'च-जः क-गम्' (२।१।८६) च० → क० । [मृष्ट्वा] 'मृषू सहने च' (५२८) मृष् । मर्षणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'ऊदितो वा' (४।४।४२) क्त्वायां वेट् । 'क्त्वा' (४।३।२९) इत्यनेन कित्त्वप्रतिषेधे प्राप्ते विकल्पार्थं वचनम् ।।छ।। वौ व्यञ्जनाऽऽदेः सन् चाऽय-वः ।।४।३।२५॥ [वौ] उश्च इश्च = वि, तस्मिन् । [व्यञ्जनाऽऽदेः] व्यञ्जनमादिर्यस्याऽसौ व्यञ्जनादिस्तस्मात् । [सन्] सन् प्रथमा सि । [च] च प्रथमा सि । [अय्वः] य च व् च = य्व्, न य्व् = अय्व, तस्मात् । ॐ बृहद्वृत्तौ - ग्रथितः । + बृहद्वृत्तौ - ग्रथितवान् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy