SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १२६ wwmar W श्रीसिद्भहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [नष्ट्वा नंष्ट्वा] 'नशौच अदर्शने' (१२०२) नश् । नशनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'नशो धुटि' (४।४।१०९) नागमः । अत्र वा क्त्वा कित्, तस्य फलम् - 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । 'यजसृज-मृज-राज-भ्राज-भ्रस्ज-वस्च-परिवाजः शः षः' (२११८७) श० →ष० । 'तवर्गस्य श्ववर्ग-ष्टवर्गाभ्यां०' (१३६०) त० → ट० । [भुक्त्वा] 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भोजनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) ग० → क० । [निक्त्वा] 'णिजूंकी शौचे च' (११४१) णिज् । 'पाठे धात्वादेर्णा नः' (२।३।९७) निज् । नेजनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'च-जः क-गम्' (२।१९८६) ज० → ग० । 'अघोषे०' (११३५०) ग० → क० । [विभज्य] 'भोंप आमर्दने' (१४८६) भञ्ज, विपूर्व० । विभञ्जनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । [अञ्जित्वा] 'अञ्जू(औ)प् व्यक्ति-म्रक्षण-गतिषु' (१४८८) अञ् । अञ्जनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । इट् । सर्वत्र प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् ।।छ।। ऋत्-तृष-मृष-कृश-वञ्च-लुच-थ-फः सेट् ।।४।३।२४।। [ऋत्तृषमृषकृशवञ्चलुञ्चथफः] ऋच्च तृषश्च मृषश्च कृशश्च वञ्चश्च लुशश्च थश्च फ् च = ऋत्तृषमृषकृशवञ्चलुचथफ, तस्मात् । [सेट्] सह इटा वर्त्तत इति सेट् । प्रथमा सि । [ऋतित्वा, अर्तित्वा] 'ऋत घृणा-गति-स्पर्द्धषु' (२८७) ऋत् । अर्त्तनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । द्वितीये 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । [तृषित्वा, तर्षित्वा] 'ञितृषच् पिपासायाम्' (१२१२) तृष् । तर्षणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । इट् । कित्फलम्- गुणो न, अन्यत्र गुणः । [मृषित्वा, मर्षित्वा] 'मृषीच तितिक्षायाम्' (१२८४) मृष् । मर्षणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । इट् । . [कृशित्वा, कर्शित्वा] ‘कृशच् तनुत्वे' (१२०७) कृश् । कर्शनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । इट् । यत्र क्त्वा कित् तत्र न गुणः । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । [वचित्वा, वञ्चित्वा] 'वधू गतौ' (१०६) वश् । वञ्चनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । इट् । 'नो व्यञ्जनस्याऽनुदितः (४।२।४५) नलुक् । [लुचित्वा, लुञ्चित्वा] 'लुञ्च अपनयने (१०३) लुशू । लुचनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । केचित्तु लुः क्तयोरपि सेटोः परतो वा कित्त्वं कुर्वन्ति, तन्मते लुचितः, लुञ्चित इति । [श्रथित्वा, श्रन्थित्वा] 'श्रन्थश् मोचन-प्रतिहर्षयोः' (१५४६) श्रन्थ् । श्रन्थनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy