SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य तृतीयः पादः ॥ १२५ द्विदिति प्रकृते किद्वद्वचनं यजादि-वचि-स्वपीनां य्वृदर्थम् । जागति(त्ते)श्च गुणार्थम् । डित्वे हि ते न स्याताम्, यथा [स्वपितः] 'ञिष्वपंक् शये' (१०८८) ष्वप् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्वप् । वर्त० तस् । ‘रुत्पश्चकाच्छिदयः' (४।४।८८) इट् । [स्वपन्ति] स्वप् । वर्त० अन्ति । [जागृतः] जागृ । वर्त्तः तस् । [जाग्रति जागृ । वर्त्तः अन्ति । 'अन्तो नो लुक्' (४।२।९४) नलुक् ।।छ।। . स्वछुर्नवा ।।४।३।२२।। [स्वञ्जः] स्वञ्जि पञ्चमी ङसि । [नवा] नवा प्रथमा सि । [परिषस्वजे, परिषस्वओ] 'ष्वजित् सङ्गे (१४७१) ष्वञ्च् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्वम्, परिपूर्व० । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे०' (४११) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः, पूर्व सस्य ‘स्वञ्जश्च' (२।३।४५) षत्वम् । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः ।।छ।। ज-नशो न्युपान्त्ये तादिः क्त्वा ।।४।३।२३।। [जनशः] जश्च नश् च = जनश्, तस्मात् । [नि] न् सप्तमी ङि । [उपान्त्ये] अन्तस्य समीपमुपान्त्यम, तस्मिन् । [तादिः] त आदिर्यस्याऽसौ तादिः, प्रथमा सि । ‘सोरुः' (२।१।७२) स० - ० । [क्त्वा] क्त्वा प्रथमा सि । सूत्रत्वात् लुप् । यद्वा क्त्वा काचित् स्त्री, तद् व्यपदेशात् क्त्वाप्रत्ययोऽपि स्त्री, तदा 'दीर्घड्याब्०' (१।४।४५) सिलुक् । [रक्त्वा, रङ्क्त्वा ] 'रञ्जी रागे' (८९६) रञ् । रञ्जनं पूर्वम् । ‘प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनेन वा क्त्वा कित्, तस्य फलम् - 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । 'च-जः क-गम्' (२।१९८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१३५०) ग० →क० । 'म्नां धुड़वर्गेऽन्त्योऽपदान्ते' (१३३९) न० → ङ० । [भक्त्वा, भक्त्वा ] 'भोप आमर्दने' (१४८६) भनु । भञ्जनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनेन वा क्त्वा कित्, तस्य फलम् - 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (११३५०) ग० →क० । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१३३९) न० → ङ० । [मक्त्वा, मक्त्वा ] 'टुमस्जोंत् शुद्धौ' (१३५२) मस्ज् । मज्जनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'मस्जेः सः' (४।४।११०) स० → न० । अनेन वा क्त्वा कित्, तस्य फलम् - 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । गम' (२११८६) ज० →ग० । 'अघोषे प्रथमोऽशिटः' (१३५०) ग० →क० । 'म्नां धुडवर्ग०' (१1३।३९) न० →ङ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy