SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [ईजतुः, ईजुः] 'यजी देवपूजा-सङ्गतिकरण-दानेषु' (९९१) यज् । परोक्षा अतुस् - उस् । कित्फलम्- 'यजादि-वचेः किति' (४११७९) वृत् य० → इ० । 'द्विर्धातुः परोक्षा-२०' (४191१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४।११४४) अनादिव्यञ्जनलोपः । 'समानानां०' (१।२।१) दीर्घः ।। [ऊचतुः, ऊचुः] 'वचंक भाषणे' (१०९६) वच् । 'बॅगक व्यक्तायां वाचि' (११२५) बू । 'अस्ति-बुवोभू-वचावशिति' (४।४।१) वच्० । परोक्षा अतुस्-उस् । कित्फलम्-'यजादि-वचेः किति' (४।१७९) वृत् व० → उ० । 'द्विर्धातुः परोक्षाडे०' (४1919) द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । 'समानानां०' (१।२।१) दीर्घः । यजादिसाहचर्याद्वचो नित्यमणिजन्तस्य ग्रहणं तेन 'वचण भाषणे' (१९५३) इति यौजादिकस्य निवृत्यर्थः, तेन ववचतुः ववचुरिति । [सुषुपतुः, सुषुपुः] 'जिष्वपंक् शये' (१०८८) प्वप् । 'षः सोऽष्ट्यै-ष्टिव-ष्वष्कः' (२।३।९८) स्वप् । परोक्षा अतुस्उस् । 'स्वपेर्यङ्-डे च' (४१८०) य्वृत् व० → उ० । 'द्विर्धातुः परोक्षा-डे०' (४।११) द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [जजागरतुः, जजागरुः] 'जागृक् निद्राक्षये' (१०९३) जागृ । परोक्षा अतुस्-उस् । द्विः । 'हूस्वः' (४।१।३९) ह्रस्वः । कित्फलम्- ‘जागुः किति' (४।३।६) गु० अर् । [सस्रंसे] भ्रंशूङ् (९५२) - ‘संसूङ् अवसंसने' (९५३) संस् । परोक्षा ए । 'द्विर्धातुः परोक्षा-२०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । 'शिड्-हेऽनुस्वारः' (१३।४०) नकारस्य अनुस्वारः । अत्र न किद्वत्, अतो न लोपो नकारस्य । [दध्वंसे] 'ध्वंसूङ् गतौ च' (९५४) ध्वंस् । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।११४४) अनादिव्यअनलोपः । 'द्वितीय-तुर्ययोः०' (४।१।४२) ध० → द० । 'शिड-हेऽनुस्वारः' (११३।४०) नकारस्य अनुस्वारः । अत्र न किद्वत्, अतो न लोपो नकारस्य । [इन्धिता] 'जिइन्धैपि दीप्तौ' (१४९८) इन्ध । श्वस्तनी ता । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । [नेता] ‘णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी । श्वस्तनी ता । 'नामिनो गुणोऽक्डितिः (४।३।१) गु० ए । [निनय] नी । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'ह्रस्वः' (४।१।३९) ह्रस्वः । 'णिद्वान्त्यो णव्' (४।३।५८) वा णित् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । [निनयिथ] नी । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे०' (४११) द्विः । 'हूस्वः' (४।१।३९) इस्वः । ‘सृजि-दृशिस्कृ-स्वराऽत्वतस्तृन्नित्याऽनिटस्थवः' (४।४।७८) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [इयाज] यज् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४११) द्विः । 'यजादि-वश्-वचः सस्वरान्तस्था य्वृत्' (४।१।७२) वृत् य० → इ० । “णिति' (४।३।५०) उपान्त्यवृद्धिः आ । [इयजिथ] यज् । परोक्षा थव् । 'द्विर्धातुः परोक्षा-२०' (४।१।१) द्विः । 'यजादि-वश्-वचः सस्वरान्तस्था वृत्' (४।१।७२) यवृत् य० → इ० । ‘सृजि-दृशि-स्कृ०' (४।४।७८) इट् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy