________________
अथ चतुर्थाध्यायस्य तृतीयः पादः ॥
[ घ्नन्ति ] हन् । वर्त्त० अन्ति । 'गम-हन-जन-खन-घसः स्वरेऽनङि क्ङिति लुक्' (४।२।४४) उपान्त्यस्य लुक् । 'हनो. नो० ' (२1१1११२) घ्नादेशः ।
[शंशान्तः] 'शमू उपशमे' (१२३०) शम् । भृशं पुनः पुनर्वा शाम्यति । 'व्यञ्जनादेरेकस्वरा० ' ( ३।४।९) यड्प्र० । ‘सन्-यडञ्श्च’ (४।१।३) द्विः । 'मुरतोऽनुनासिकस्य' ( ४।१।५१) मोऽन्तः । ' बहुलं लुप्' ( ३।४।१४ ) यड्लुप् । वर्त्त० तस् । 'अहन्पञ्चमस्य क्वि - क्डिति' ( ४।१।१०७ ) दीर्घः ।
१२३
[तन्तान्तः] 'तमूच् काङ्क्षायाम् ' (१२३२) तम् । भृशं पुनः पुनर्वा ताम्यति । 'व्यञ्जनादेरेकस्वरा० ' ( ३।४।९) यङ्प्र० । ‘सन्-यडञ्श्च’ (४।१।३) द्विः । 'मुरतोऽनुनासिकस्य' (४।१।५१) मोऽन्तः । 'बहुलं लुप् ' ( ३।४।१४ ) यङ्लुप् । वर्त्त० तस् । ‘अहन्पञ्चमस्य क्वि क्डिति' (४।१।१०७) दीर्घः ।
[चेषीष्ट] ‘चिंग्ट् चयने' (१२९०) चि । आशीः सीष्ट । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'नाम्यन्तस्थाकवर्गात् पदान्तः कृतस्य सः शिङ्- नान्तरेऽपि ' (२।३।१५ ) षत्वम् ।
[वेत्ता ] 'विदिंच् सत्तायाम् ' ( १२५८ ) विद् । श्वस्तनी ता । ' लघारुपान्त्यस्य ' ( ४।३।४ ) गु० ए । 'अघो प्रथमोऽशिट : ' (१1३1५०) द० त० ।
[च्यवन्ते] 'च्युंङ् गतौ' (५९४) च्यु । वर्त्त० अन्ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[ प्लवन्ते ] च्युंङ् (५९४ ) - ज्युंङ् (५९५ ) - जुंङ् (५९६) पुंङ् (५९७) - 'प्लुंङ् गतौ' (५९८) प्लु । वर्त्त० अन्ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'लुगस्यादेत्यपदे' (२।१।१३३) अलोपः । अन्तरङ्गत्वाद् गुणे कृते शवो लोपात्, स्थानिवद्भावाद्वा ॥छ ||
इन्ध्यसंयोगात् परोक्षा द्वित् ||४|३|२१||
[इन्ध्यसंयोगात् ] न विद्यते संयोगो यस्य सः = असंयोगः, इन्धिश्च असंयोगश्च इन्ध्यसंयोगम्, तस्मात् । [ परोक्षा ] परोक्षा प्रथमा सि ।
[किद्वत्] क् इदनुबन्धो यस्याऽसौ कित्, किदिव= किद्वत् । 'स्यादेरिवे' (७।१।५२) वत्प्र० । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलुप् ।
[ समीधे, समीधाते, समीधिरे] 'ञिइन्धैपि दीप्तौ ' (१४९८) इन्धू, सम्पूर्व० । परोक्षा ए-आते इरे । किं कित्फलम् ? गुणो न स्यात् । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । द्विर्धातुः परोक्षा-डे० ' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'समानानां तेन दीर्घः' (१।२1१) दीर्घः ।
[निन्यतुः, निन्युः] 'णींग् प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी । परोक्षा अतुस् - उस् । 'द्विर्धातुः परोक्षा- डे० ' (४।१।१) द्विः । ' ह्रस्वः' ( ४ |१ | ३९ ) ह्रस्वः । किं कित्फलम् ? गुणो न भवति । 'योऽनेकस्वरस्य ' (२।१।५६ ) यत्वम् ।
[बिभिदतुः, बिभिदुः] 'भिपी विदारणे' (१४७७) भिद् । परोक्षा अतुस् - उस् । 'द्विर्धातुः परोक्षा-डे० ' ( ४।१।१) द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्’ (४।१।४४) अनादिव्यञ्जनलोपः । किं कित्फलम् ? यतो गुणाभावः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२ )
भ० ब० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org