SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १२२ [ जागृतः ] 'जागृक् निद्राक्षये' (१०९३) जागृ । वर्त्त० तस् । [वित्तः ] 'विदक् ज्ञाने' (१०९९) विद् । वर्त्त० तस् । 'अघोषे प्रथमोऽशिट: ' (१1३1५०) द० त० । [ अधीते] 'इंड्क् अध्ययने' (११०४) इ, अधिपूर्व० । वर्त्त० ते । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः । [ संवित्ते ] विद्, सम्पूर्व० । वर्त्त० ते । 'अघोषे प्रथमोऽशिट : ' (१।३।५० ) द० त० । 'समो गमृच्छि-प्रच्छि श्रु-वित्०' ( ३।३१८४) आत्मनेपदम् । [ दीव्यति ] 'दिवच् क्रीडा-जयेच्छा-पणि-धुति-स्तुति-गतिषु' (११४४) दिव् । वर्त्त० तिव् । 'दिवादेः श्यः' ( ३ | ४ |७२ ) श्यप्र०य । 'भ्वादेर्नामिनो दीर्घो वर्व्यञ्जने' (२।११६३) दीर्घः । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [सुनुतः] 'पुंग्ट् अभिषवे' (१२८६) षु । षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सु । वर्त्त० तस् । ' स्वादेः श्नुः' (३।४।७५) श्नुप्र० नु । [तुदति] 'तुदत् व्यथने' (१३१५) तुद् । वर्त्त० तिव् । 'तुदादेः शः ' ( ३।४।८१) शप्र० अ । [क्रीणाति] 'डुक्रींग्श् द्रव्यविनिमये' (१५०८) क्री । वर्त्त० तिव् । 'क्यादेः' (३।४।७९) श्नाप्र० ना । 'स् वर्णान्नो ण एकपदेऽनन्त्यस्याऽल-च-ट-तवर्ग-श-सान्तरे' (२।३।६३) न० ० । [अधीयन् सिद्धान्तम् ] 'इंड्क् अध्ययने' (११०४) इ, अधिपूर्व० । अकृच्छ्रेणाधीते । 'धारीडोऽकृच्छ्रेऽतृश्' (५।२।२५ ) अतृश्प्र० → अत् । इयादेशः । सिद्धान्त द्वितीया अम् । [ अधीयानः ] अधीयते । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२० ) आनश्प्र० → आन । इयादेश: । 'समानानां०' (१।२1१ ) दीर्घः । अत् । [विदन्] ‘विदक् ज्ञाने' (१०९९) विद् । वेत्ति = विदन् । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० प्रथमा सि । 'ऋदुदितः' (१।४।७० ) नोऽन्तः । ' दीर्घड्याब्०' (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९) तलोपः । [संविदानः] संवित्ते संविदानः । 'समो गमृच्छि-प्रच्छि- श्रु- वित्-स्वरत्यर्त्ति दृश: ' ( ३ | ३ |८४) आत्मनेपदम् । 'शत्रानशावेष्यति०' (५।२।२०) आनश्प्र० आन । = [जिनाति] 'ज्यांश हानौ' (१५२४) ज्या । वर्त्त० तिव् । 'क्यादेः' (३।४।७९) श्नाप्र० ना । 'ज्या व्यधः क्डिति' (४।१।८१) य्वृत् या० इ० । [विध्यति] 'व्यधंच् ताडने' (११५७) व्यधू । वर्त्त० तिव् । 'दिवादेः श्यः' (३।४।७२ ) श्यप्र०य । 'ज्या व्यधः क्डिति' (४।१।८१) वृत् व्य०वि० । [गृह्णाति] 'ग्रहीश् उपादाने ' (१५१७) ग्रहू । वर्त्त० तिव् । 'क्यादेः' (३।४।७९) श्नाप्र० ना । ग्रह-व्रस्वभ्रस्ज- प्रच्छ: ' ( ४१११८४) य्वृत् ग्र० गृ० । [वृश्चति] 'ओस्चौत् छेदने' (१३४१) वस्च् । 'सस्य श-षौ' (१।३।६१) स० श० । वर्त्त० तिव् । 'तुदादेः श: ( ३ | ४१८१ ) शप्र० अ । ग्रह व्रस्व-भ्रस्ज-प्रच्छः' (४।११८४) य्वृत् । Jain Education International [हतः] 'हनंक् हिंसा-गत्योः' (११००) हन् । वर्त्त० तस् । ' यमि-रमि- नमि-गमि- हनि-मनि-वनति - तनादेर्धुटि क्डिति' (४।२।५५) नलुक् । For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy