________________
१२०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । न्यधुवीत] धू, निपूर्व० । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच । 'सः सिजस्तेर्दि स्योः' (४।३।६५) ईत् → ई । इट् । 'इट ईति' (४।३७१) सिज्लोपः । 'समानानां तेन दीर्घः' (१।२१) दीर्घः । 'धातोरिवर्णोवर्णस्येयुव०' (२१५०) उव् । 'अड़ धातोरादि०' (४।४।२९) अट । अत्र डित्वात् 'सिचि परस्मै समानस्याऽडिति' (४।३।४४) इत्यनेन वृद्धिरपि न भवति ।
[उदकोटि] ‘कुटत् कौटिल्ये' (१४२६) कुट, उत्पूर्व० । अद्यतनी त । ‘भाव-कर्मणोः' (३।४।६८) जिच् → इ. तलोपश्च । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'अड् धातोरादि०' (४।४।२९) अट् ।
[उत्कोट:] उत्कोटनं = उत्कोटः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[उत्कोटयति] उत्-कुट् । उत्कुटन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । लघोरुपान्त्यस्य' (४।३।४) गु० ओ । वर्त्त तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । एदेतोऽयाय्' (१।२।२३) अय् ।
[उच्चुकोट उत-कुट | परोक्षा णव । 'द्विर्धातुः परोक्षा-डे०' (४।११) द्वि: । 'व्यञ्जनस्याऽनादेलक' (४११४४) अनादिव्यञ्जनलोपः । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'क-डश्च-ज्' (४।१।४६) क० → च० । 'धुटस्तृतीयः' (२।१।७६) त० → द० । 'तवर्गस्य श्ववर्ग-ष्टवर्गाभ्यां योगे च-टवर्गो' (१३१६०) द० → ज० । 'अघोषे प्रथमोऽशिट:' (१।३।५०) ज० → च० ।
[तृणकोटः] तृण-कुट् । तृणानि कुटन्तीति । 'कर्मणोऽण्' (५।११७२) अण्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[उत्कोटकः] उत्कुटतीति । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[लेखनीयम्] ‘लिखत् अक्षरविन्यासे' (१३३६) लिख् । लिख्यते । 'तव्या-ऽनीयौ' (५।१।२७) अनीयप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए ।
[कडकः] 'कडत मदे' (१३५९) कड़ । कडतीति । 'णक-तृचौ' (५।११४८) णकप्र० → अक । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० । 'रः पदान्ते विसर्गस्तयोः' (१।३।५३) विसर्गः ।
[स्फरकः] 'स्फर स्फुरणे' (१३९८) स्फर् । स्फरतीति । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । प्रथमा सि । 'सो रुः' (२।१७२) स० → ० । 'रः पदान्ते०' (११३५३) विसर्गः ।
[स्फलकः] स्फर (१३९८) - ‘स्फलत् स्फुरणे' (१३९९) स्फल । स्फलतीति । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । प्रथमा सि । 'सो रुः' (२१११७२) स० → र० । 'रः पदान्ते०' (१।३।५३) विसर्गः ॥छ।।
विजेरिट ||४।३।१८।।
[विजे:] विजि पञ्चमी डसि । [इट्] इट् प्रथमा सि । [उद्विजिता] ‘ओविजैति भय-चलनयोः' (१४६८) विज्, उत्पूर्व० । श्वस्तनी ता । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२)
इट् ।
[उद्विजितुम्] उद्वेजनाय = उद्वे(द्वि)जितुम् । “क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती' (५।३।१३) तुम्प्र० ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org