SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य तृतीयः पादः ॥ → य० । 'धातोरिवर्णोवर्णस्येयुव०' (२191५०) इय् । 'समानानां०' (५।२।२४) शानप्र० → आन । अनेन वा इ० (१।२१) दीर्घः ।।छ।। कुटादेर्डिद्वदणित् ।।४।३।१७।। [कुटादेः] कुट आदिर्यस्याऽसौ कुटादिस्तस्मात् । [डिद्वत्] ङ् इदनुबन्धो यस्याऽसौ डित्, डिदिव = द्धित् । [अगित्] ञ् च ण् च = उणी, ज्गावितावनुबन्धौ यस्याऽसौ ञ्णित्, न णित् = अञ्णित् । [कुटिता] ‘कुटत् कौटिल्ये' (१४२६) कुट् । श्वस्तनी ता । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । [कुटितुम] कुट् । कुटनाय । ‘क्रियायां क्रियार्थायां तुम् णकच भविष्यन्ती' (५।३।१३) तुम्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । [कुटितव्यम्] कुट् । कुट्यते = कुटितव्यम् । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । [फुटित्वा] कुट् । कुटनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । [गुता] 'गुंत् पुरीषोत्सर्गे' (१४२७) गु । श्वस्तनी ता । [गुतुम्] गु । गुवनाय । ‘क्रियायां क्रियायां०' (५।३।१३) तुम्प्र० । [नविता] ‘णूत् स्तवने' (१४२९) णू । 'पाठे धात्वादेो नः' (२।३।९७) नू । श्वस्तनी ता । इट् । 'धातोरिवर्णावर्णस्येयुक्०' (२।१।५०) उव् । [नुवितुम्] नू । नुवनाय । क्रियायां क्रियार्थायां०' (५।३।१३) तुम्प्र० । 'धातोरिवर्णो०' (२७।५०) उव् । [धुविता] 'धूत् विधूनने' (१४३०) धू । श्वस्तनी ता । इट् । 'धातोरिवर्णो०' (२।१।५०) उव् । [धुवितुम्] धू । धुवनाय । 'क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । इट् । 'धातोरिवर्णो०' (२।१।५०) उन् । [कुता] 'कुंङ् शब्दे' (१४६२) कु । श्वस्तनी ता । [कुतुम्] कु । कुवनाय । ‘क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प० । [कुविता] ‘कूड्त् शब्दे' (१४६३) कू । श्वस्तनी ता । इट् । 'धातोरिवर्णो०' (२।१।५०) उव् । [कुवितुम्] कू । कुवनाय । 'क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । इट् । 'धातोरिवर्णो०' (२।१।५०) उन् । - [न्यनुवीत् नू । निपूर्व० । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् →ई । इट् । 'इट ईति' (४१३७१) सिज्लोपः । 'समानानां०' (१२।) दीर्घः । 'धातोरिवर्णोवर्णस्येयुव०' (२।१।५०) उव् । 'अड् धातोरादिय॑स्तन्यां०' (४।४।२९) अट् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy