SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Nowwwwwwwwwwwwwweee श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । यन्तौ] इ । इत इति । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० → अत् । अनेन इ० → य० । प्रथमा औ । 'ऋदुदितः' (१।४।७०) नोऽन्तः । [यन्तः] इ । यन्तीति । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० → अत् । अनेन इ० → य० । प्रथमा जस् । 'ऋदुदितः' (१।४।७०) नोऽन्तः । [जुहुवतुः] हु । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) “हु"द्विः । 'ग-होर्जः' (४१।४०) ह० → ज० । 'धातोरिवर्णोवर्णस्येयुव् स्वरे प्रत्यये' (२।१।५०) उव् । [ईयतुः] इ । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा-डे०' (४।१1१) द्विः । 'इणः' (२११५१) मूलधातोः इय् । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः । [ईयुः] इ । परोक्षा उस् । 'द्विर्धातुः परोक्षा-२०' (४।१।१) द्विः । ‘इणः' (२।१।५१) मूलधातोः इय् । 'समानानां०' (१४२१) दीर्घः । [जुहुतः] हु । वर्त० तस् । 'हवः शिति' (४।१।१२) "हुद्विः । 'ग-होर्जः' (४।१।४०) ह० → ज० । [इतः] इ । वर्त्तः तस् । [अजुहवुः] हु । हस्तनी अन् । 'ड्युक्त-जक्षपञ्चतः' (४।२।९३) अन्० → पुस्० → उस्० । 'हवः शिति' (४।१।१२) “हु" द्विः । 'ग-होर्जः' (४।११४०) ह० → ज० । 'पुस्-पौ' (४।३।३) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'अड् धातोरा०' (४।४।२९) अट् । [जुहवानि] हु । पञ्चमी आनि → आनि । 'हवः शिति' (४।१।१२) “हु"द्विः । ‘ग-होर्जः' (४।१।४०) ह० → ज० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [अयानि] इ । पञ्चमी आनिव् → आनि । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [आयन्] इ । हास्तनी अन् । 'एत्यस्तेर्वृद्धिः' (४।४।३०) वृद्धिः ऐ । 'एदैतोऽयाय' (११२१२३) आय ।।छ।। इको वा ।।४।३।१६।। [इकः] इक् षष्ठी डस् । [वा] वा प्रथमा सि । [अधियन्ति, अधीयन्ति] 'इंक स्मरणे' (१०७४) इ, अधिपूर्व० । वर्त्त० अन्ति । अनेन वा इ० → य० । धातोरिवर्णोवर्णस्येयु स्वरे प्रत्यये' (२।११५०) इय् । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः । [अधियन्तु, अधीयन्तु] इ, अधिपूर्व० । पञ्चमी अन्तु । अनेन वा इ० → य० । 'धातोरिवर्णोवर्णस्येयुव०' (२१५०) इय् । 'समानानां०' (१।२।१) दीर्घः । [व्यत्यधियीरन्, व्यत्यधीयीरन्] इ, वि-अति-अधिपूर्व० । सप्तमी ईरन् । अनेन वा इ० → य० । 'समानानां०' (१।२।१) दीर्घः । [मा स्म अधियन्, मा स्म अधीयन] मा स्म इ, अधिपूर्व० । ह्यस्तनी अन् । अनेन वा य० । 'धातोरिवर्णो०' (२।१।५०) इय् । कितीहाधियानाः, कतीहाधीयानाः कति प्रथमा जस । इह प्रथमा सि । अध्येतुं शक्ताः । 'वयः-शक्ति-शीले' Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy