________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ॥
[महास्तुतिः] महती स्तुतिरस्य सः । [महाकरः] महांश्चासौ करश्च । [महाघासः] महांश्चासौ घासश्च । [महाविशिष्ट:] महांश्चासौ विशिष्टश्च ।
[महामानी] बुधिं (१२६२) - ‘मनिंच ज्ञाने' (१२६३) मन्, महत्पूर्व० । महान्तमात्मानं मन्यते । ‘मन्याण्णिन्' (५।१।११६) णिन्प्र० → इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । प्र० सि । ‘इन्-हन्-पूषाऽर्यम्णः शिस्योः ' (१।४।८७) दीर्घः । 'दीर्घड्याब०' (१।४।४५) सिलोपः । अनेन डा | 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।
[महत्तरः] महत् । म प्रकृष्टो महान् । 'द्वयोर्विभज्ये च तरप्' (७।३।६) तरप्प० । [महतीपुत्रः] महत्याः पुत्रः । [महतीपतिः] महत्याः पतिः ।
[महद्भूतश्चन्द्रमाः] अमहान् महान्संपन्नः । 'कृ-भ्वस्तिभ्यां कर्मकर्तृभ्या०' (७।२।१२६) च्चिप्र० । 'अप्रयोगीत्' (१1१1३७) विलोपः ।
[महद्भूता कन्या] महत् । 'अधातूदृदितः' (२।४।२) डी । +अमहती महतीसंपन्ना । 'कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां०' (७।२।१२६) विप० । ‘च्चौ क्वचित्' (३।२।६०) पुंवत् । 'अप्रयोगीत्' (१1१।३७) च्चिलोपः ।।छ।।
न पुंवन्निषेधे ।।३।२७१।।
[न] न प्रथमा सि ।
[पुंवन्निषेधे] पुंवदित्येतस्य निषेधः = पुंवन्निषेधस्तस्मिन् ।
[महतीप्रियः] महती प्रियाऽस्य सः । 'नाप-प्रियादौ' (३।२।५३) इति पुंवन्निषेधः । [महतीमनोज्ञः] महती मनोज्ञाऽस्य सः । ‘गोश्चान्ते०' (२।४।९६) ह्रस्वः ।।छ।।
इच्यस्वरे दीर्घ आच्च ||३२|७२।।
[अस्वरे] न स्वरोऽस्वरस्तस्मिन् ।
[बाहूबाहवि, बाहाबाहवि व्यासजेताम्] बाहु । बाहु । बाहुषु च (२) मिथो गृहीत्वा व्यासक्तम् । ‘इच् युद्धे' (७।३।७४) इच्समासान्तः → इ । अनेन । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । 'षजं सङ्गे' (१७३) षङ्ग् । 'षः सोऽष्ट्यैष्टिव-ष्वष्कः' (२।३।९८) सञ्ज, वि-आड्यूर्व० । हास्तनी आताम् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव । 'आतामाते-आथामाथे आदि:' (४।२।१२१) आत्० → इ० । 'अवर्णस्येवर्णादिनैदोदरल' (१।२।६) ए ।
[केशाकेशि] केशेषु च (२) मिथो गृहीत्वा कृतं युद्धम् । ‘इच् युद्धे' (७।३।७४) इच्समासान्तः → इ । सर्वत्र अनेन दीर्घः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः ।
[मुष्टीमुष्टि, मुष्टामुष्टि] मुष्टिभिश्च (२) मिथः प्रहृत्य कृतं युद्धम् । 'इच् युद्धे' (७।३।७४) इच्समासान्तः →
P. ॐ द्वयोर्मध्ये प्रकृष्टो महान् = महत्तरः । P. + अमहती महतीभूता ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org