________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[विव्यचिथ] व्यच् । परोक्षा थव् । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'स्क्रसृ-वृ-भृ०' (४।४।८१) इट् । अनेन इ० ।
३००
[विव्यथे ] 'व्यथिष् भय-चलनयोः ' (१००२) व्यथ् । परोक्षा ए । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्’ (४।१।४४) अनादिव्यञ्जनलोपः । अनेन इ० ।
[विव्यथाते] व्यथ् । परोक्षा आते । 'द्विर्धातुः परोक्षा- डे० ' ( ४1919 ) द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४ ) अनादिव्यञ्जनलोपः । अनेन इ० ।
[विव्यथिरे] व्यथ् । परोक्षा इरे । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४/१/४४) अनादिव्यञ्जनलोपः । अनेन इ० ।
[वाव्यथ्यते] व्यथ् । भृशं पुनः पुनर्वा व्यथते । 'व्यञ्जनादेरेकस्वराद्० ' ( ३।४।९) य० । 'सन्- यङश्च' ( ४।१।३) ‘व्यथ्’द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४।१।४८) आ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । । छ । ।
यजादि-वश् वचः सस्वरान्तस्था वृत् ||४|१।७२ ।।
[यजादिवश्वचः ] यज् आदिर्येषां ते = यजादयः, यजादयश्च वश् च वच् च = यजादिवश्वच्, तस्य । [सस्वरान्तस्थाः ] सह स्वरेण वर्त्तत इति सस्वरा, सस्वरा चासौ अन्तस्था च (थाश्च) = सस्वरान्तस्थाः, प्रथमा सि । [य्वृत्] इश्च उश्च ऋच्च = वृत्, प्रथमा सि ।
[इयाज] 'यजीं देवपूजा-सङ्गतिकरण-दानेषु' (९९१) यज् । परोक्षा णव् । 'द्विर्धातुः परोक्षा ङे० ' (४।१।१) “ यज्”द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' ( ४।११४४) जलुक् । अनेन वृत् य० इ० । 'ञ्णिति' ( ४ | ३ |५०) उपान्त्यवृद्धिः आ । [इयजिथ] यज् । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे० ' ( ४।१।१) “यज् 'द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४/१/४४) जलुक् । अनेन वृत् य० इ० । सृजि- दृशि - स्कृ० ' ( ४।४।७८) इट् ।
[उवाय ] 'वेंग् तन्तुसन्ताने' (९९२) वे । परोक्षा णव् । 'वेर्वय्' ( ४|४|१९ ) "वय्" आदेशः । द्विर्धातुः परोक्षाङे०' (४।१।१) द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन व० उ० । 'णिति' (४।३।५० ) उपान्त्यवृद्धिः आ ।
[उवयिथ] 'वेंग् तन्तुसन्ताने' (९९२) वे । परोक्षा थव् । 'वेर्वय्' (४|४|१९) "वय्” आदेशः । द्विर्धातुः परोक्षाङे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४ ) अनादिव्यञ्जनलोपः । 'स्क्रसृ-वृ-भृ-स्तु०' ( ४१४१८१ ) इट् ।
[उवाप] 'डुवर्षी बीजसन्ताने' (९९५) वप् । परोक्षा णव् । 'द्विर्धातुः परोक्षा- डे० ' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्’ (४।१।४४) अनादिव्यञ्जनलोपः । अनेन व० उ० । ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ ।
[उवपिथ] वप् । परोक्षा थव् । 'द्विर्धातुः परोक्षा- डे० ' ( ४1१1१ ) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन व० उ० । 'सृजि- दृशि - स्कृ०' (४।४।७८) इट् ।
[उवाह] ‘वहीं प्रापणे' (९९६) वह् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे० ' ( ४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' धातुरत्नाकरे विविचिथ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org