SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २९८ [आशतुः ] अश् । परोक्षा अतुस् । शेषं 'आश' वत् । [आट] 'अट गतौ' (१९४) अट् । परोक्षा णव् । 'द्विर्धातुः परोक्षा- ङे० ' ( ४।१।१) द्विः । व्यञ्जनस्याऽनादेर्लुक्’ (४।१।४४) टलुक् । 'अस्याऽऽदेराः परोक्षायाम्' ( ४|१|६८ ) आ । 'समानानां ० ' (१।२।१) दीर्घः । [ आटतुः ] अट् । परोक्षा अतुस् । शेषं 'आट' वत् । [आञ्छ] 'आछु आयामे' (१२३) आछ् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) आञ्छ् । परोक्षा णव् । 'द्विर्धातुः परोक्षाडेо' (४।१।१) द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ' ह्रस्वः' ( ४।१।३९ ) ह्रस्वः । अनेन अ (आ) न स्यात्, यतः पूर्वं आकारत्वात् । 'अस्याऽऽदेराः परोक्षायाम्' (४।१।६८) अस्य आ । अग्रेप्येवम् । [आञ्छतुः ] 'आछु आयामे' (१२३) आछ् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) आञ्छ् । परोक्षा अतुस् । शेषं आञ्छ' वत् । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [आनाञ्छ] 'आछु आयामे' (१२३) आछ् । 'उदितः स्वरान्नोऽन्तः ' ( ४।४।९८) आञ्छ् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । ' व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ह्रस्वः' ( ४|१|३९) ह्रस्वः । मतान्तरे अनेन आ-नोऽन्तश्च । [आनाञ्छतुः ] 'आछु आयामे' (१२३) आछ् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) आञ्छु । परोक्षा अतुस् । 'शेषं आनाञ्छ' वत् ॥ छ। भू-स्वपोरी ||४|१|७० ॥ [ भूस्वपोरदुतौ ] भूश्च स्वप् च तयोः । अच्च उच्च अदुतौ । [बभूव बभूवतुः ] 'भू सत्तायाम् ' (१) भू । परोक्षा णव्- अतुस् । द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) “भू द्विः । ' ह्रस्वः’ (४।१।३९) ह्रस्वः । ‘द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भु० बु० । अनेन उ० अ० । स्वरे प्रत्यये' (२|9|५०) उव् । 'भुवो वः परोक्षा-ऽद्यतन्योः ' ( ४।२।४३) उ० धातोरिवर्णोवर्णस्येयुद् ऊ । [बभूवे चैत्रेण] भू । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) “भू" द्विः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । 'द्वितीयतुर्ययोः पूर्वौ' (४।१।४२) भु० बु० । अनेन उ० अ० । 'धातोरिवर्णोवर्णस्येयुव्० ' (२।१।५०) उद् । 'भुवो वः परोक्षा- Sद्यतन्योः' (४।२।४३) उ० ऊ० । [ अनुबभूवे कम्बलः साधुना ] भू, अनुपूर्व० । परोक्षा ए । शेषं 'बभूवे चैत्रेण' वत् । [सुष्वाप] 'ञिष्वपंक् शये' (१०८८) ष्वप् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्वप् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) “स्वप्" द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन अकारस्य उ० । ‘ञ्णिति’ ( ४ | ३ |५० ) उपान्त्यवृद्धिः । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् । [सुष्वपिथ] स्वप् । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे० ' ( ४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन अ० उ० । 'सृजि- दृशि - स्कृ- स्वराऽत्वतस्तृन्नित्यानिटस्थवः' (४|४|७८) इट् । [बुभूषति ] 'भू सत्तायाम् ' (१) भू । भवितुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । ' सन्-यडश्च' (४।१।३) क्रियारत्नसमुच्चये द्वित्वे वृद्धौ आवि । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy